________________
तथा लक्ष्य रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः- ३६९ सस्यन्द इत्यादि-व्योम कर्तृ शोणितं सस्यन्दे सिञ्चति स्म । स्थन्दिः सकर्मकः । रणाङ्गानि खड्गादीनि जज्वलुः ज्वलन्ति स्म । साश्वाः सहाश्वैः रथाः प्रचस्खलुः स्खलन्ति स । अश्वकुञ्जरं न ररंह न गतम् ॥ ११६७-प्रतोदा जगलुर्, वाममानञ्चुर् यज्ञिया मृगाः॥
ददाल भूः, पुपूरे द्यौः, कपीनामपि निःस्वनैः ॥१९॥ प्रतोदा इत्यादि-प्रतोदाः जगलुः हस्तेभ्यो गलिताः । ५८७। गल अदने' अनेकार्थत्वात्पतने ऽपि । मृगाः यज्ञियाः यज्ञाहाः कृष्णसाराः । १७३५। यज्ञविग्भ्यां घ-खजौ।५।१७।। वाममङ्गमान ः गतवन्तः। २२४८। अत आदेः। ७।११७०।' इति दीर्घः । २२८८॥ तस्मान्नुड् द्विहलः ७१७१।' भूर्ददाल विदीर्णा। जज्बालेति पाठान्तरं चलालेत्यर्थः । कपिनिःस्वनैद्यौराकाशं पुपूरे पूर्णम् । दिक पूरणनिमित्तं यतः कपयो हर्षात्तद्विनाशसूचका एवमाचरन्ति ॥ ११६८-मिमेह रक्तं हस्त्यश्वं, राक्षसाश् च नितिष्ठिवुः, ॥
ततः शुशुभतुः सेने, निर्-दयं च प्रजहतुः ॥१०॥ '' 'मिमेहेत्यादि-हस्त्यश्वं कर्तृ रक्तं मिमेह मूत्रितवदित्यर्थः । २०६१ । मिह सेचने ।' राक्षसाश्च स्वरक्तं नितिष्ठिवुः निरस्तवन्तः । ततो दुनिमित्तादनन्तरं ते सेने सन्नद्धे शुशुभतुः शोभितवत्यौ । निर्दयं प्रजहतुः प्रहृतवत्यौ ॥ ११६९-दिद्विषुर्, दुधुवुश्, चच्छुश्,
चक्लमुः, सुषुपुर्, हताः॥ चखादिरे चखादुश् च,
विलेपुश् च रणे भटाः ॥ १०१॥ दिद्विषुरित्यादि-रणे भटाः दिद्विषुः परस्परं द्विष्टवन्तः । १०८२। द्विष अप्रीतौ।' दुधुवुः अभिमुखं गतवन्तः । १११३ । छु अभिगमने ।' चच्छु: छिन्नवन्तः । १२२॥ छो छेदने ।' हताश्चक्लमुः मूच्छी गतवन्तः। सुषुपुः भूमौ पतिताः । वच्यादिना सम्प्रसारणम् । चखादिरे खादिताः । कर्मणि लिए । 'चखादुः खादितवन्तः । विलेपुश्च विलापं कृतवन्तः । '२२६० । अत एकहल।६।४।१२०॥' इत्येत्वम् ॥ ११७०-प्रहस्तस्य पुरो-मात्यान् जिहिंसुर्, दधृषुस् तथा ॥
' वानराः, कर्म सेनानी रक्षसां चक्षमे न तत्.॥१०२॥ . प्रहस्तस्येत्यादि-अमात्यान सचिवान् प्रहस्तस्य पुरोऽप्रतः वानरा जिहिंसुहतवन्तः। तथा दषुः परिभूतवन्तः । १३५०। निषा प्रागल्भ्ये। तच कर्म वानरैर्यत्कृतं रक्षसां सेनानीः प्रहस्तः न चक्षमे स ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com