________________
३६८ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः, समालेभे समालब्धम् । ववशे भाच्छादितम् । १०९२ । वस आच्छादने ।' बुभुजे भुक्तम् । पपे पीतम् । भावे लिट् ॥ ११६१-जहसे च क्षणं, यानैर् निर्जग्मे योद्धृभिस् ततः॥
विप्रान् प्रहस्त आनर्च, जुहाव च विभावसुम्. ९३ जहस इत्यादि-क्षणं जहसे हसितम् । यानैः करणभूतैः निर्जग्मे निर्गतम् । ततः प्रहस्तः विप्रान् गोसुवर्णादिदानेन आनर्च पूजितवान् । विभावसुं. चाग्निं आज्यादिना जुहाव प्रीणितवान् ॥ ११६२-संवर्गयांचकारा ऽऽप्तान् , चन्दनेन लिलेप च, ॥ .
चचाम मधुमाकं, त्वक्-नं चाऽऽचकचे वरम्.९४ संवर्गयामित्यादि-आप्तान् विश्वासिनः संवर्गयांचकार कटकादिप्रदानेन संवर्गितवान् । संवर्ग करोतीति ण्यन्तस्य रूपम् । चन्दनेन लिलेप समालब्ध वान् । मृद्वीका द्राक्षा तस्या विकारः माकं मधु चचाम । त्वक्त्रं च सन्नहनं वर श्रेष्टं आचकचे बद्धवान् । १७७। कच बन्धने' इत्यनुदात्तेत् ॥ ११६३-उष्णीषं मुमुचे चारु, रथं, च जुजुषे शुभम् , ॥ .
आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः ॥१५॥ उष्णीषमित्यादि-उष्णीषं शिरस्त्राणं मुमुचे। रथं च जुजुषे । जुषिरनुदात्तेत् । महास्त्राणि आललम्बे गृहीतवान् । '४०३। लबि अवस्त्रंसने' इत्यनुदा. त्तेत् । तत उत्तरकालं गन्तुं प्रववृते प्रवृत्तः । ११६४-आजघ्नुस् तूर्य-जातानि, तुष्टुवुश् चा ऽनुजीविनः, ॥
रजः प्रववृधे घोरं, घोषश् च व्यानशे दिशः. १९६॥ आजघ्नुरित्यादि-तूर्यजातानि वायसमूहान् माजनुः ताडितवन्तः । तन्नियुक्ता इत्यर्थात् । २६९५। आडो यमहनः । ।३।२७।' इति तङ् न भवति सकर्मकत्वात् । अनुजीविनश्च तुष्टुवुः । 'जय जीव' इति स्तुवन्ति स्म । पदक्षोभाद्घोरं रजः प्रववृधे वर्धते स्म । घोषश्च कलकलशब्दः दिशो ब्यानशे व्याप्तवान् । ११६५-तं यान्तं दुद्रुवुर् गृध्राः, ऋव्यादश् च सिषेविरे ॥ ____ आववुर् वायवो घोराः, खादुल्काश् च प्रचक्षरु...९७.
तं यान्तमित्यादि-तं प्रहस्तं गृध्राः यान्तं अशुभसूचकाः दुद्रुवुर्गतवन्तः, कव्यादश्च शृगालाः सिषेविरे सेवितवन्तः, वायवो घोराः पांशुग्राहिणः भावपुर समन्ताद्वान्ति स, उल्काश्च तदा तस्मिन् काले प्रचक्षरुः पतिताः । ९०८॥ क्षर संचलने' इत्यकर्मकः ॥ . ११६६-सस्यन्दे शोणितं व्योम, रणाऽङ्गानि प्रजज्वलुः ॥
रथाः प्रचस्खलुः साऽश्वा, न, ररंहाऽ-श्वकुञ्जरम्.९८ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com