________________
तथा लक्ष्य रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः -- ३६७
युग्मम् —
११५६ - प्रहस्तम॑र्थयांचक्रे योद्धुमद्भुत - विक्रमम् ॥
'किं विचारेण, राजेन्द्र ! युद्धऽर्था वयमि॑ित्यसौ' ८८ प्रहस्तमित्यादि - अद्भुतविक्रमं प्रहस्तं रावणो योद्धुं 'युज्यस्व' इत्यर्थयांचक्रे प्रार्थितवान् । '२०५१ अर्थ उपयाच्ञायाम्' इति चौरादिक आत्मनेपदी । वचनात् असौ प्रहस्तः प्रार्थितश्चक्काण बभाणेति वक्ष्यमाणेन संबन्धः । हे राजेन्द्र ! युद्धार्था वयं युद्धप्रयोजनाः ततश्च किं विचारेणेति ॥ ११५७ - चक्काणाशङ्कितो योद्धुमुत्सेहे च महा-रथः, ॥
निर्येमिरे ऽस्य योद्धारश्, चक्लृपे चाऽश्व कुञ्जरम्.८९
चक्काणेत्यादि - उक्त्वा च स महारथो योद्धा अशङ्कितो निर्भयः सन् योद्धुमुत्सेहे उत्साहं कृतवान् । अस्य योद्धारो रावणेन निर्येमिरे नियमिताः । अनेन सह एतावद्भिर्योद्धव्यमिति । कर्मणि लिट् । अश्वकुञ्जरं चक्लृपे सज्जीकृतम् । पशुद्वन्द्वैकवद्भावः । ‘२३५०। कृपो रो लः | ८|२| १८ | ' ॥
११५८–युयुजुः स्यन्दनान॑श्वैर्रीजुर् देवान् पुरोहिताः ॥
आनर्चुर् ब्राह्मणान् सम्यगाशिषश् चाऽऽशशंसिरे. ९० युयुजुरित्यादि - स्यन्दनान् रथान् अश्वैर्युयुजुः युञ्जन्ति स्म । पुरोहिताः देवानीजुः पूजितवन्तः । यजादित्वात्सम्प्रसारणम् । ब्राह्मणानानर्चुः पूजितवन्तः । ते च पूजिताः आशिषः आशशंसिरे उदितवन्तः । १०९१| आङः शासु इच्छायाम्' अनुदात्तेत् । शास इत्वे आङ् । 'शासोः कावुपसङ्ख्यानम्' इत्याशीः ॥ ११५९ - ऊहिरे मूर्ध्नि सिद्धार्था, गावश् चा ऽऽलेभिरे भटैः, ॥
प्रचुक्ष्णुवुर् महा ऽस्त्राणि, जिज्ञासांचक्रिरे हयान्। ९१
ऊहिर इत्यादि - भटैर्योधैः सिद्धार्थाः सर्षपाः मूर्ध्नि ऊहिरे ऊढाः । गाववालेभिरे स्पृष्टाः कर्मणि लिट् । महास्त्राणि प्रचुक्ष्णुवुः तेजितवन्तः । तथा तैर्योद्धुं पार्यत इति । '१११० । क्ष्णु तेजने' | भटाः हयान् जिज्ञासांचक्रिरे ज्ञातुमिच्छां कृतवन्तः किमेते योद्धु क्षमा नेति । '२७३१। ज्ञा-श्रु-स्मृ-दृश सनः | १|३|५७ |' इत्यात्मनेपदित्वादनुप्रयोगे ऽपि तङ् ॥
1
युग्मम् -
११६०–ललुः खड्गान्, ममार्जुश् च, ममृजुश् च परश्वधान् ॥ 'अलंच, समालेभे ववसे, बुभुजे, पपे ॥ ९२ ॥
ललुरित्यादि - खङ्गान् ललुगृहीतवन्तः । ' ११३२ । ला आदाने । ' ममार्जुश्च विशुद्धान् कृतवन्तः । तथा परश्वधान् ममृजुः परशून् शोधितवन्तः । मृजेरजादौ संक्रमे विभाषा वृद्धिः । योद्धुभिर्वक्ष्यमाणैः अलंचक्रे भलंकृतम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com