________________
. ३७० भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे प्रथमो वर्गः, ११७१ - ऊर्णुनाव स शस्त्रौघैर् वानराणाम॑नीकिनीम् ॥
"
शशास च बहून्, योधान्, जीवितेन विवेच च ॥ ऊर्णुनावेत्यादि - स सेनानीर्वानराणामनीकिनीः सेनाः शस्त्रैरूणुनाव छादितवान् । ऊर्णोतेणुंवद्भावादिजादेरित्याम् न भवति । शशास च योधान् । '७७७॥ शसु हिंसायाम् ।' जीवितेन च विवेच पृथक् कृतवान् । '१५३६ । विचिर् पृथग्भावे' इति रुधादौ स्वरितेत् ॥
११७२ - आससञ्ज भयं तेषां दिद्युते च यथा रविः, ॥
नाऽऽययास, द्विपद् - देहैर् जगाहे च दिशो दश. १०४
आससखेत्यादि - तेषां योधानां युयुत्सूनां भयमाससञ्ज आलग्नम् । ''१०५६। षञ्ज सङ्के' इत्यकर्मकः । प्रहस्तश्च रविरिव दिद्युते द्योतते स्म । '२३४४॥ द्युति-स्वाप्योः सम्प्रसारणम् | ७|४|६७ |' इत्यभ्यासस्य सम्प्रसारणम् । नाययास युध्यमानो नायस्यति स्म । '१२८६ । यसु प्रयत्ने ।' द्विषद्देहैश्च शत्रुकायैः करणभूतैः दश दिशो जगाहे अवष्टब्धवान् ॥
११७३ - केचित् संचुकुटु र् भीता, लेजिरे ऽन्ये पराजिताः, ॥
संग्रामाद् बभ्रुशुः केचिद् ययाचुश् चा ऽपरे ऽभयम्. ॥ केचिदित्यादि -- केचिद्भीताः सन्तः संचुकुटुः संकुटिताः । निष्प्रयत्नाः स्थिता इत्यर्थः । ' १४५५ | कुट कौटिल्ये ।' अन्ये पराजिताः सन्तः लेजिरे भसिताः प्रहस्तेन मृगा इव कातरा यूयमिति । ' २४७ । २४८ । लज लाजि भर्त्सने ।' कर्मणि लिट् । केचित् संग्रामाद्वभ्रशुः पलायिताः । १३०३ 'भृशु भ्रंशु अधःपतने । ' अपरे चाभयं ययाचुः याचितवन्तः ॥
१९७४ - एवं विजिग्ये तां सेनां प्रहस्तो, ऽतिददर्प च ॥
शशाम न च संक्रुद्धो, निर्जुगोप निशाचरान्. ॥१०६ ॥ एवमित्यादि - एवमुक्तेन प्रकारेण प्रहस्तस्तां सेनां विजिग्ये जितवान् । ‘२६८५| विपराभ्यां जेः | १| ३ | १९| इति तङ् । '२३३१ | सॅल्लिटोर्जेः | ७|३|५७ ' इति कुत्वम् । अतिददर्पं च सुष्ठु हृष्टवान् । '१२७२। दृप हर्षविमोचनयो:' । न च शशाम न च शमं गतः । निशाचरान् स्वीयानमात्यान् निर्जुगोप रक्षितवान् । आयाभावपक्षे रूपम् ॥
११७५ - चुक्रुधे तत्र नीलेन, तरुश् चच्चिक्षिपे महान्, ॥
प्रहस्तो ऽभिहतस् तेन बाणान् विससृजे बहून्, १०७ चुक्रुध इत्यादि - तत्र तस्मिन् संग्रामे नीलेन चुक्रुधे क्रुद्धम् । भावे लिट् । तरुवोच्चिक्षिपे उत्क्षिप्तः । कर्मणि लिट् । तेन तरुणा उन्मूलितेनाभिहतः सन् प्रहस्तो बाणान् विससृजे क्षिप्तवान् । '१२५४ ॥ सृज विसर्गे' इति दैवादिको ऽनुदात्तेत् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com