________________
तथा लक्ष्य-रूपे कथानके 'शर-वन्धों' नाम चतुर्दशः सर्गः-- ३६५ परस्मैपदम् । परान् शत्रून् शौर्यगुणयुक्ताः प्रयोजकाः भीषयांचक्रिरे भीषयन्ते स्म । अत्र '२५९४। भी-स्म्योर्हेतुभये ॥१॥३॥६८।' इति तङ् अनुप्रयोगेऽपि ॥ ११४७-रक्तं प्रचुश्चतुः क्षुण्णाः, शिश्वियुर बाण-विक्षताः, ॥
अस्यतां शुशुवुर् बाणान् भुजाः साऽङ्गुष्ठ-मुष्टयः.७९ रक्तमित्यादि-केचित् क्षुण्णाः खण्डिताः सन्तो रक्तं प्रचुश्चतुः प्रक्षरिताः, केचित् शिश्वियुः। '२४२०। विभाषा श्वेः ।६।१।३०।' इत्यसम्प्रसारणपक्षे रूपम् । बाणानस्यतां क्षिप्यतां योधानां भुजाः साङ्गुष्ठमुष्टय अङ्गुष्ठमुष्टिसहिताः शरविक्षताः शरमिन्नाः शुशुवुः गताः । गत्यर्थे द्रष्टव्यम् । सम्प्रसारणपक्षे रूपम् ॥ ११४८-रणे चिक्रीड धूम्राक्षस् , तं ततर्जाऽनिलाऽऽत्मजः॥
आददे च शिलां, साऽश्वं पिपेषा ऽस्य रथं तया.८० रण इत्यादि-धूम्राक्षो रणे चिक्रीड क्रीडति स्म, तमनिलात्मजो हनूमान् ततर्ज भसितवान् , शिलामाददे च गृहीतवान् , तया शिलया अस्य धूम्राक्षस्य साश्वं रथं पिपेष चूर्णितवान् ॥ ११४९-पपात राक्षसो भूमौ, रराट च भयंकरम् , ॥
तुतोद गदया चाऽरिं, तं दुधावा ऽद्रिणा कपिः॥ पपातेत्यादि-राक्षसो धूम्राक्षो भूमौ पपात, पतितः सन् भयंकरं रराट रटितवान्, ततो ऽरिं हनूमन्तं गदया तुतोद आहतवान् , तं राक्षसं स कपिः भगिणा हुध्राव व्यापादितवान् ॥ ११५०-अकम्पनस् ततो योद्धं चकमे रावणाऽज्ञया, ॥
... स रथेना ऽभिदुद्राव, जुघुरे चाऽतिभैरवम्. ॥८२॥ - अकम्पन इत्यादि-ततो धूम्राक्षविनाशानन्तरं अकम्पनो राक्षसः रावणाज्ञिया युध्यस्वेति योद्धं चकमे इष्टवान् । '२३०५। आयादय आर्धधातुके वा (३॥१॥३१॥ इति णिङभावपक्षे रूपम् । सो ऽकम्पनः रथेनाभिदुद्राव अभिमुखं यता, च शब्दं कृतवान्, अतिभैरवं अतिभयानकम् । जुघुरे। 'धुर भीमार्थशदयो' इत्यनुदात्तेत् ॥ ११५१-पस्पन्दे तस्य वामाऽक्षि,
सस्यमुश् चाऽशिवाः खगाः, :
, तान् बबाजा ऽवमत्या ऽसौ, ...... ... ... ... ... बभासे च रणे शरैः॥ ८३॥
पस्पन्द इत्यादि-तस्थाकम्पनस्यानिमित्तत्वसूचकं वामाक्षि पस्पन्दे स्पन्दि: बम्, भशिवाश्च भशिवसूचकाः खगाः सस्यमुः शब्दं कृतवन्तः। अनेस्वपक्षे रूपम् । तान् खगान् अवमत्यावज्ञायासौ वव्राज गतः, रणे शरैश्च वभासे शोभितम् ॥.: Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
२.