________________
३६४ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे प्रथमो वर्गः,
त्वत्रैरित्यादि - धूम्राक्षसंबन्धिनो नृभुजो राक्षसाः त्वचैः सन्नाहैः । त्वचं ब्रायन्त इति देहान् संविव्ययुः छादितवन्तः । '१०६५ । व्येञ संवरणे' इत्यस्य । * २४१६ । न व्यो लिटि | ६ | १ | ४६ । ' इत्यात्वंप्रतिषेधः । ' २४०८ । लिट्यभ्यासस्योभयेषाम् | ६ | १|१७|' इति सम्प्रसारणम् । वाहनान्यधिशिश्यिरे भारूढवन्तः । ‘२७२। एरनेकाचः | ६|४|८२ ।' इति यण् । '५४२ । अधिशीङ् - 1१।४।४६ ।' इति कर्मसंज्ञा । अस्त्राण्यानर्जुः गृहीतवन्तः । 'अर्ज प्रतियले ।' '२२४७ । अत आदेः ।७।४।७०।' इति दीर्घः । ‘२२८८। तस्मान्नुड् द्विहलः | ७|४|७१ |' भनचुः इति पाठान्तरम् । पूजितवन्तः । आहवक्षितिं च रणभूमिं ववञ्जुर्गताः । 'वक्षु गतौ' ॥ १९४३ - अध्युवास रथं, तेये पुराच्, चुक्षाव चा ऽशुभम्, ॥
संश्रावयांचकारा ssख्यां धूम्राक्षस् तत्वरे तथा ७५
अध्युवासेत्यादि - धूम्राक्षो रथमध्युवास आरूढः । '५५४ । उपान्वध्याङ् `वसः । १।४।४८।' इति कर्मसंज्ञा । पुरात् लङ्कातः तेये निष्क्रान्तः । ' भय पय तय' इत्यादिपु तयिरनुदात्तेत् चुक्षाव च शब्दं कृतवान्, अशुभं भयानकम् । 'क्षु शब्दे ।' आख्यां आत्मीयं नाम संश्रावयांचकार श्रावितवान् तथा तत्वरे त्वरते स्म युद्धाय ॥
"
११४४ - निलिल्ये मूर्ध्नि गृध्रोऽस्य, क्रूरा ध्वाङ्क्षा ववाशिरे ॥ शिशीके शोणितं व्योम, चचाल क्ष्मा-तलं तथा ७६
निलिल्य इत्यादि - अस्य धूम्राक्षस्य गच्छतो मूर्ध्नि गृध्रो निलिल्ये निलीनः । २७२ । एरने काचः । ६।४।८२ । इति यण् । ध्वाङ्गाः क्रूराः अशुभशंसिनः ववाशिरे वाशन्ते स्म । व्योम कर्तृ शोणितं शिशीके क्षरितवत् । 'शीकृ सेचने इत्यनुदात्तेत् । तथा क्ष्मातलं पृथ्वीतलं चचाल चलितम् ॥
"
११४५ - ततः प्रजघटे युद्धं, शस्त्राण्या॑सुः परस्परम् ॥ वत्रचुरा॑जुघूर्णुश्, च स्येमुश्, चुकूर्दिरे तथा ७७
तत इत्यादि - ततो निमित्तादनन्तरं युद्धं प्रजघटे घटितम्, ते हरिराक्षसाः वक्ष्यमाणाः शस्त्राण्यासुः क्षिप्तवन्तः परस्परं ववश्रुः विवन्तः, आजुघूर्णुः चक्रवद्भ्रान्ताः । वूर्णतिरनुदात्तेत् । स्येमुः शब्दं कृतवन्तः । स्यमेः फणादित्वादेवम् । चुकूर्दिरे क्रीडितवन्तः ॥
१९४६ - रुरुजुर्, जिरे, फेणुर्, बहुधा हरि - राक्षसाः, ॥
वीरा न विभयांचक्रुर्, भीषयांचक्रिरे परान् ॥७८॥
रुरुजुरित्यादि — रुरुजुर्भग्नवन्तः, जिरे शोभिताः, बहुधा बहुप्रकारं फेणु'र्गताः 'फण गतौ ।' वीराः सात्त्विका न बिभयांचक्रुः न बिभ्यति स्म ‘२४९१ । श्रीह्री भृ-हुवां श्वच |३|१|३९| ' इस्याम् । बिमेतेः परस्मैपदित्वात् अनुप्रयोगे
T
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com