SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः - ३६३ ११३७ - संपस्पर्शा ऽथ काकुत्स्थौ, जज्ञाते तौ गत-व्यथौ ॥ तयोरा॑त्मानमा॑च॒ख्यौ, ययौ चा ऽथ यथागतम्. ६९ संपस्पर्शेत्यादि - अनन्तरं गरुत्मान् काकुत्स्थौ राघवौ संपस्पर्श स्पृष्टवान्, तौ च स्पृष्टौ गतव्यथा जज्ञाते जातौ तयोः काकुत्स्थयोरात्मानमाचख्यौ गरुरमानहमिति कथितवान् । '२४३७| वा लिटि | २|४|५५ ।' इति चक्षिङः ख्याञ् । ययौ चापि यथागतं यथा तेनागतं तथा गतवान् ॥ ११३८ - स्वेनुस्, तित्विषुरुद्येमुरुच्चख्नुः पर्वतांस् तरून्, 11 वानरा दद्रमुश् चा ऽथ संग्रामं चाऽऽशशाशिरे. ७० स्वेनुरित्यादि - अथानन्तरं वानराः हृष्टाः स्वेनुः शब्दितवन्तः, तित्विषुः, शोभिताः, 'स्त्रिष दीप्तौ ।' उद्येमुः उद्योगं चक्रुः, पर्वतानुञ्चख्नुः उत्क्षिप्तवन्तः, दद्रमुः इतस्ततो भ्रान्ताः । 'द्रम हंम मीमृ गतौ ।' संग्रामं च आशशाशिरे अभीष्टवन्तः । 'आङः शासु इच्छायाम्' आदादिको ऽनुदात्तेत् ॥ ११३९ - डुढौकिरे पुनर् लङ्कां बुबुधे तान् दशाननः ॥ " जीवतश् च विवेदाऽरीन् बभ्रंशे ऽसौ धृतेस् ततः ॥ डुढौकिर इत्यादि - पुनर्भूयो लङ्कां डुढौकिरे जग्मुः, तान् वानरान् ढौकितान् दशाननो बुबुधे बुद्धवान्, जीवतश्वारीन् रामादीन् विवेद ज्ञातवान् । अन्यथा कथं वानरा ढौकिताः । ततश्च धृतेः सकाशाद्वभ्रंशे भ्रष्टः ॥ १९४० - सस्रंसे शरबन्धेन दिव्येनेति बुबुन्द सः ॥ भाजा ऽथ परं मोहमूहांचक्रे जयं न च ॥७२॥ सस्रंस इत्यादि -- दिव्येन शरबन्धेन सस्रंसे त्रस्तम् । भावे लिट् । इत्येवं दशाननो बुबुन्द श्रुतवान् । 'बुदि निशामने।' अथानन्तरं महामोहं मूर्च्छाकारं बभाज सेवते स्म । न जयमूहांचक्रे वितर्कितवान् ॥ ११४१ - धूम्राक्षो ऽथ प्रतिष्ठासांचक्रे रावण-संमतः ॥ सिंहाssस्यैर्युयुजे तस्य वृऽऽस्यैश् च रथः खगैः॥ धूम्राक्ष इत्यादि - अथ धूम्राक्षो रावणसंमतो रावणेनानुज्ञातः सन् । भूते निष्ठात्र द्रष्टव्या । प्रतिष्ठासांचक्रे गन्तुमिच्छां कृतवान् । प्रपूर्वात्तिष्ठतेः ‘२६८९। समवप्रविभ्यः स्थः | १|३ | १२ | ' इति तङ् । ' २२७० । उपसर्गात् |८|३|६५|' इत्यादिना षत्वम् । तस्य च गन्तुमिच्छतो रथः खगैः आकाशगामिभिर्यानैः सिंहमुखैर्वृकमुखैश्च युयुजे युक्तः । कर्मणि लिट् ॥ ११४२ - त्वक्त्रैः संविव्ययुर् देहान्, वाहनान्यं धिशिश्यिरे, ॥ आनर्जुर्नृ-भुजोऽस्त्राणि, ववञ्जुश् चाऽऽहव-क्षितिम्, Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy