________________
३६२ भट्टि-काव्ये-चतुर्थे तिङन्स-काण्डे लक्षण-रूपे प्रथमो वर्गः, ११३२-आदिदेश स किष्किन्धां राघवौ नेतुर्मङ्गदम्, ॥
प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसा वधम्. ॥ ६४॥ आदिदेशेत्यादि-सुग्रीवो राघवौ किष्किन्धां नेतुमङ्गदमादिदेश, स्वयं च रक्षसां विनाशं प्रतिजज्ञे अहमेव व्यापादयामीति । २७१९। संप्रतिभ्याम्।१३।४६' इति तङ् । सकर्मकाथै वचनम् ॥ ११३३-नागाऽस्त्रमिदमेतस्य विपक्षस् तार्क्ष्य-संस्मृतिः ॥
विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः ॥६५॥ नागास्त्रमित्यादि-नागास्त्रमिदं न शराः, एतस्य च विपक्षः शत्रुस्ताक्ष्यसंस्मृतिः गरुडसंस्मरणं यत्संस्मरणादेवास्य शान्तिरिति । एवं विभीषाणाच्छुत्वा रघूत्तमो राघवस्वाक्ष्य दध्यौ ध्यातवान् ॥ ११३४-ततो विजंघटे शैलैरुद्वेलं पुप्लुवे ऽम्बुधिः॥
वृक्षेभ्यश् चुच्युते पुष्पैर् , विरेजुर् भासुरा दिशः ६६ तत इत्यादि-ततो ध्यानानन्तरं तदागमनवायुवेगाच्छैलैर्विजघटे विधटितम् । भावे लिट् । अम्बुधिरुद्वेलं वेलामतिक्रम्य पुप्लवे गतः, वृक्षेभ्यः सका. शात् पुष्पैश्चच्युते च्युतम् , दिशश्च भासुराः सुपर्णपक्षप्रभाभिः प्रभासनशीलाः सत्यो विरेजुः शोभन्ते स्म । २३५४। फणां च सप्तानाम् ।६।४।१२५।' इत्येवपक्षे रूपम् । तत्र वेत्यनुवर्तते ।। ११३५-जगाहिरे ऽम्बुधिं नागा, ववौ वायुर् मनो-रमः ॥
तेजांसि शंशमांचक्रुः, शर-बन्धा विशिश्लिषुः॥६७॥ जगाहिरे इत्यादि-नागा भयादम्बुधिं जगाहिरे प्रविष्टाः, वायुस्तत्प्रभवो ववौ वाति स्म, तेजांसि रत्नादीनां शंशमांचक्रुः अत्यर्थं प्रशान्तानि शमेयङ्लुगन्तस्य रूपम् । एवं च कृत्वा अनुप्रयोगे परस्मैपदम् । शरबन्धा विशिश्लिषु. विश्लिष्टाः दूरत एव तत्प्रभावात् ॥ ११३६-भ्रजिरे ऽक्षत-वद् योधा, लेभे संज्ञां च लक्ष्मणः, ॥
विभीषणोऽपि बभ्राजे, गरुत्मान् प्राप चाऽन्तिकम् ॥ भेजिर इत्यादि-अक्षतवत् अक्षता इव योधा भेजिरे दीप्यन्ते स । '२३५४। फणां च सप्तानाम् ।६।४।१२५।' इत्येत्वपक्षे रूपम् । संज्ञां चेतना लक्ष्मणो लेभे प्राप्तवान् , विभीषणो ऽपि बभ्राजे संपन्ना मे मनोरथा इति । अनेत्वपक्षे रूपम् । अन्तिकं च रामलक्ष्मणयोर्गरुत्मान् प्राप। गरुतः पक्षिणस्तेऽनुजीवितयास्य सन्तीति मतुप् । यवादेराकृतिगणत्वात् १८९८॥ यः । ८।२।१०' इति वत्वं न भवति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com