________________
तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः - ३६१ ११२८ - जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे ॥
दैवं निनिन्द, चक्रन्द, देहे चा ऽतीव मन्युना ॥ ६०॥
जग्लावित्यादि - शोकंभारात् जग्लौ ग्लानिं गता, दध्यौ ध्यातवती, पुनः किं मया द्रष्टव्यो ऽसीति । वितस्तान पीडया शब्दं कृतवती । '२००२ । स्तन शब्दे' । न प्राण न मूच्छिता । न जिजीव निःसंज्ञत्वात् । ' ११४४ । अन प्राणने' | '२२४४ । अत आदेः | ७|४|७०|' इति दीर्घत्वम् । विव्यथे लब्धसंज्ञा पीडिता । '२३५३ । व्यथो लिटि | ७|४| ६८ | ' इत्यभ्यासस्य सम्प्रसारणम् । दैवं निनिन्द निन्दितवती हे दैव ! विरूपमाचरितं त्वयेति । चक्रन्द रुदिता । पुनर्मन्युना शोकेन देहे दग्धा । कर्मणि लिट् ॥
११२९ - आश्वासयांचकारा ऽथ त्रिजटा तां, निनाय च ॥
ततः प्रजागरां चक्रुर् वानराः स विभीषणाः ॥ ६१॥
आश्वासयामित्यादि - अथानन्तरं त्रिजटा रावणभगिनी तां सीतामाश्वासयांचकार श्राश्वासितवती । विष्णुरसौ दाशरथिः कथमस्य विरूपं भविष्यतीति । निनाय च तस्मात्पुष्पकान्नीतवती, तत उत्तरकालं वानरा विभीषणेन सह प्रजागरांचक्रुः आलोचनां कृतवन्तः । अत्रानुप्रयोगे नात्मनेपदं पूर्वस्यानात्मनेपदित्वात् ॥
११३०-चिचेत रागस् तत् कृच्छ्रमोषांचक्रे शुचा ऽथ सः, ॥ मन्युश् चा ऽस्य समापिप्ये, विरुरांव च लक्ष्मणम्. ६२
चिचेतेत्यादि - तत् कृच्छ्रं शरबन्धदुःखं रामश्चिचेत ज्ञातवान् | चिती संज्ञाने' इत्युदात्तेत् । शुचा शोकेन ओषांचक्रे । कर्मणि लिट् । '२३४१ । उषविद - | ३|१|३८|' इत्याम् । स च मन्युः शोकः अस्य रामस्य समापिप्ये वृद्धि गतः । 'ओप्यायी वृद्धौ ।' तस्य लिटि '३०७२ | प्यायः पी | ६ | १|२८ ।' इति पीभावः । ' एरनेकाचः | ६|४|८२ | ' इति यण् । लक्ष्मणं च विरुराव शब्दितवान् वत्स ! जीवसीति ॥
११३१ - समीहे मर्तुमानर्चे तेन वाचा ऽखिलं बलम्, ॥ आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च ॥ ६३ ॥
-
समीह इत्यादि - मर्तु प्राणांस्त्यक्तुं समीहे इच्छति स्म । तेन रामेणाखिलं समस्तं बलं वाचा आनचे पूजितम् भवद्भिः साध्वनुष्ठितं अस्मद्भाग्यमत्रापरा. ध्यतीति । कर्मणि लिट् । '२२८८ । तस्मान्नुड् द्विहलः | ७|४|७१।' इति नुट् । सुग्रीवं चापपृच्छे आपृच्छति स्म । आमन्त्रितवानित्यर्थः । एहि तावद्दर्शनं मे देहि परिष्वजस्वेति । 'आङि नुप्रच्छयोरुपसंख्यानम्' इति तङ् । स्वं च देशं किष्किन्धां विससर्ज प्रहितवान् ॥
भ० का ० ३१
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
: