________________
३६० भट्टिकाव्ये - चतुर्थी तिङन्तकाण्डे लक्षण-रूपे प्रथमो वर्गः,
प्राणा इत्यादि - प्रिये रामे हते प्राणा वायवः दध्वंसिरे ध्वस्ताः, गात्रं चतस्तम्भे काष्ठवन् निश्चलमभूत् । 'ष्टभि स्कभि प्रतिबन्धे ।' चिरादुच्छश्वास उच्छसितवती, असौ लब्धसंज्ञा दीना दुःखिता रुरोद रुदितवती, ररास च वक्ष्यमाणं च विलापं कृतवती ॥
.
११२४ - 'लौह-बन्धैर् बबन्धे नु, वज्रेण किं विनिर्ममे ॥
मनो मे, न विना रामाद् यत् पुस्फोट सहस्र-धा. ॥५६॥
लौहबन्धैरित्यादि - लोहस्येमे लौहाः तैर्बन्धैर्मनो हृदयं मम बबन्धे बद्धम् । कर्मणि लिट् । नुशब्दो वितर्के । उत वज्रेण विनिर्ममे निर्मितम् । '११६३ | माझ् माने' इत्यस्मात्कर्मणि लिट् । भातो लोपस्य '२२४३ | द्विर्वचने ऽचि |१|१|५९ |' इति स्थानिवद्भावात् द्विर्वचने ह्रस्वत्वे च रूपम् । यद्यस्मात् विना रामात् रामेण विना । '६०३ | पृथग्विना - | २|३|३२|' इति पञ्चमी । न पुस्फोट न स्फुटितं सहस्रधा । '१९८८ । संख्याया विधार्थे धा १५।३।४२ ॥
"
११२५ - उत्तेरिथ समुद्रं त्वं मदर्थे ऽरीन् जिहिंसिथ, ॥ ममर्थ चाऽतिघोरां मां धिग् जीवित- लघूकृताम् ॥५७॥
उत्तेरिथेत्यादि - मदर्थे मन्निमित्तं समुद्रमुत्तेरिथ उत्तीर्णो ऽसि '२३०१ | तृ-फल-|६|४|१२२।' इत्यादिना एत्वाभ्यासलोपौ । तथा अरीन् जिहिंसिथ निहतवानसि । थलि रूपम् । यतो मदर्थे ममर्थ मरणावस्थां गतोऽसि । अतोऽतिघोरामतिरौद्रां मां धिक् जीवितलघूकृतां जीवत्याजित महत्वात् ॥
११२६- न जिजीवा ऽसुखी तातः प्राणता रहितस् त्वया ॥ मृतेऽपि त्वयि जीवन्त्या किं मया ऽणकभार्यया . ' ५८
,
न जिजीवेत्यादि-वया प्राणता जीवता । '११४४ । अन प्राणने ' | रहितो विमुक्तस्तातो दशरथो न जिजीव न जीवितः । स्वयि मृते ऽपि जीवन्त्या मया न किंचित्प्रयोजनम् । अणकभार्यया । '७३४ | पापाणके| २|१|५४ |' इति सः ॥
११२७ -- सा जुगुप्सान् प्रचक्रे ऽसून्, जगर्हे लक्षणानि च ॥ देहभाञ्जि, ततः केशान् लुलुञ्च, लुलुठे मुहुः ॥५९ ॥
·
सा जुगुप्सानित्यादि - सा सीता पूर्वोक्तकारणादेव असून् प्राणान् जुगुसान् प्रचक्रे निन्दितान् कृतवती । जुगुप्स्यन्त इति छन् । तदन्तस्य सनि रूपम् । आमि प्रत्यये तु प्रचक्र इत्यनुप्रयोगो न घटते । देहभाजि शरीरस्थानि लक्षणानि भवैधन्यसूचकानि च जगहें गर्हते म । 'गई गर्लभ कुत्सने ।' मुहुः केशान् लुलु अपनीतवती, तथा लुलुठे पतिता ॥ -
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com