________________
तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः - ३५९
सक्थ्यक्ष्णोः - |५|४|११३।' इति समासान्तष्टच् । रिपुमिन्द्रजितं खे स्थितं विदांचकार ज्ञातवान् । '२३४१ | उप-विद - | ३|१|३८|' इत्यादिना आम् । ननर्द च शब्दितवान् । क्केदानीं यास्यसीति ॥
१११९ - उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः ॥
विहाय रावणिस् तस्मादनंहे चा ऽन्तिकं पितुः ५१
•
उज्जुगूर इत्यादि - ततो ऽनन्तरं कपिः सुग्रीवः इन्द्रजितं हन्तुं शैलमुज्जुगूरे उत्क्षिप्तवान् । '१२२९| गूरी हिंसा - गत्योः' इति दैवादिकोऽनुदात्तेत् । तस्य गतौ वर्तमानस्य रूपम् । रावणिरिन्द्रजित् विहाय अर्थाद्युद्धं विहाय तस्मादाकाशात्पितुरन्तिकमानं हे गतः । ' १९३३ । अहि गतौ ।' '२२८८। तस्मान्नु द्विहलः | ७|४|७१।' इति नुट् ॥
११२० - आचचक्षे च वृत्तान्तं, प्रजहर्ष च रावणः ॥
गाढं चौपजुगूहनं, शिरस्यु॑पशिशिङ्ख च ॥ ५२ ॥
"
आचचक्ष इत्यादि - नागपाशेन राघवौ बद्धाविति वृत्तान्तमाचचक्षे आख्यातवान् रावणः प्रजहर्ष तुष्टवान्, एनं च रावणिं च उपजुगूह इदमाश्लिष्टवान् । अत्र क्रियाफलस्याविवक्षितत्वात् तङ् न भवति । '२३६४। ऊदुपधाया गोहः | ६|४|८९ | ' इत्यूत्वम् । शिरसि उपशिशिङ्ख आघ्रातवान् । 'शिधि आघ्राणे ॥'
११२१-ध्वजानु॑हु॒धुवुस् तुङ्गान, मांसं चेमुर, जगुः पपुः, ॥ कामयांचक्रिरे कान्तास्, ततस् तुष्टा निशाचरः ॥
·
ध्वजानित्यादि - ततो निशाचरा अपि श्रुत्वा तुष्टाः सन्तः ध्वजांस्तुङ्गानुदुध्रुवुः उत्क्षिप्तवन्तः, मांसं चेमुः खादितवन्तः, 'चमु छमु अदने ।' जगुर्गीतवन्तः, पपुः मद्यं पीतवन्तः, कान्ताः कामयांचक्रिरे । कमेर्णिङन्तादाम् ॥
११२२ - दर्शयांचक्रिरे रामं सीतां राज्ञश् च शासनात् ॥
५
तस्या मिमीलतुर् नेत्रे, लुलुठे पुष्पकोदरे ॥ ५४ ॥ दर्शयामित्यादि - तथाभूतं रामं दृष्ट्वा सीता मम विधेया स्यादित्यभिप्रा यवतो राज्ञो रावणस्य आज्ञया राक्षसाः अशोकवनिकातः पुष्पकमारुह्य सीत रामं दर्शयांचक्रिरे दर्शितवन्तः । 'अभिवादि-दशोरात्मनेपद उपसंख्यानम्' इति चिकल्पेन द्विकर्मकता । तस्याः सीताया नेत्रे निमीलतुः निमीलिते । 'मील निमेषणे ।' पुष्पकोदरे पुष्पकमध्ये । मूर्च्छया लुलुठे लुठिता ॥
११२३ - प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते, ॥
उच्छश्वास चिराद् दीना, रुरोदा ऽसौ ररास च ॥५५ ।।
·
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com