________________
तथा लक्ष्य-रूपे कथानके 'शर-बन्धों' नाम चतुर्दशः सर्गः- ३५७ चुश्योत व्रणादित्यर्थात् कर्तरि लिटः पित्वादकित्वे गुणः । भुजश्छिन्नाः सन्तः क्षणमात्रं चेलुश्चलिताः ॥ ११०९-कृत्तैरपि दृढ-क्रोधो वीर-वत्रैर् न तत्यजे, ॥
पलायांचक्रिरे शेषा, जिह्रियुः शूर-मानिनः ॥४१॥ कृत्तरित्यादि-वीरवः शूरमुखैः कृतैरपि छिन्नैरपि दृढो घनः क्रोधो न तत्यजे न त्यक्तः । दष्टौष्ठभ्रुकुठ्यादीनां तथावस्थानात् । कर्मणि लिद । पलायांचक्रिरे पलायिताः । '२३२४। दयायासश्च ।३।३॥३७॥' इत्याम् । '२३२६। उपसर्गस्यायतौ ।।२।१९।' इति लत्वम् । शेषा ये न पलायिताः ते शूरमानिनः । २९९२। मनः ।३।२।०२।' इति णिनिः । जिहियुः लजन्ते स॥ १११०-राघवो न दयांचके, दधुर् धैर्य न केचन, ॥
___ मने पतङ्गवद् वीररै हाहेति च विचुक्रुशे.॥४२॥ राघव इत्यादि-राघवो न दयांचवे न दयां कृतवान् । पूर्ववदाम् । न केचन न केचित् धैर्य दधुः धारितवन्तः । सर्व एव अहमहमिकया प्रवृत्ताः । यदि वा न केचिन केचिद्धयं न दधुः अपि तु दधुरेव । पतङ्गवत्पतङ्गैरिव वीरैर्मने मृतम् । भावे लिट् । हाहेति च विचुक्रुशे रुदितम् ॥ ११११-तिरोबभूवे सूर्येण, प्रापे च निशया ऽऽस्पदम् ॥
जग्रसे काल-रात्रीव वानरान् राक्षसांश् च सा.४३ तिर इत्यादि-सूर्येण तिरोबभूवे तिरोभूतम् । अस्तं गतमित्यर्थः । भावे लिट् । निशया निशा च भास्पदं प्रतिष्ठाम् । १०६१॥ भास्पदं प्रतिष्ठायाम् १६३१११४६।' इति निपातनम् । प्रापे प्राप्तम् । कर्मणि लिद । सा च निशा कालरात्रीव कालः कृतान्तस्तेन प्रयुक्ता रानिरिति शाकपार्थिवत्वात्सः । ३४४५। रात्रेश्चाजसौ ।४।१॥३॥ इति डीप । वानरान् राक्षसांश्च जनसे असते स। भक्षितवतीत्यर्थः । १११२-चुकोपेन्द्रजिदत्युग्रं सोऽस्त्रं चा ऽऽजुहाव, सः॥
आजुहुवे तिरोभूतः परानीकं, जहास च. ॥४४॥ चुकोपेत्यादि-रामव्यापारं दृष्ट्वा इन्द्रजित् तिरोहितः सन् चुकोप कुपितवान्, मत्युग्रं च सस्त्रिं सअिस्खमिव आजुहाव आहूतवान् , आह्वयतेः शन्दे वर्तमानस्य '२४१७। अभ्यस्तस्य च ।।३३' इति द्विवचनात् प्राक् सम्प्रसारणं ततो द्विवचनम् । परानीकं च रामबलं भाजुहुवे स्पर्धते स । २७०४॥ स्पर्धायामाङः ॥१॥३॥३॥' इत्यात्मनेपदम् । पूर्ववरसम्प्रसारणम् । यजादित्वाद्वा । तत उवडादेशः जहास च विहसितवान् ॥ १११३-बबाधे च बलं कृत्स्नं, निजग्राह च सायकैः ॥
उत्ससले शरांस् , तेऽस्य सर्प-साच् च प्रपेदिरे.४५
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com