SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३५६ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः, मि(ती)प्रतिषेधः । प्राणैर्जहे त्यक्तः । कर्मणि लिट् । द्विविदो वानरः अशनिप्रभ राक्षसं प्राणान् प्रमोचयांचकार त्याजितवान् । मुचेय॑न्तस्य लिटि रूपम् ॥ ११:४-गदा शक्र-जिता जिध्ये, तां प्रतीयेष वालि-जः॥ रथं ममन्थ स-हयं शाखिना ऽस्य ततोऽङ्गादः.३६ गदेत्यादि-शक्रजिता इन्द्रजिता गदा जिध्ये प्रहिता । हिनोतेः कर्मणि लिट् । '२५३११. हेरचङि . ७।३०५६' इति कुत्वम् । तां गदां वालिजोऽङ्गदः । प्रतीयेष प्रतीष्टवान् । इषेः '२२९०। अभ्यासस्थासवणे ।६।१७।' इतीयछ । ततोऽनन्तरं अस्य शक्रजितो रथं सहयं साश्वं शाखिना तरुणा ममन्य चूर्णित. वान् । 'मथि हिंसासंक्लेशनयोः ॥' ११०५-तत् कर्म वालि-पुत्रस्य दृष्ट्वा विश्वं विसिष्मिये, ॥ . संसू राक्षसाः सर्वे, बहु मेने च राघवः ॥ ३७ ।। तत्कर्मेत्यादि-तत्कर्म रथस्य चूर्णनं दृष्ट्वा विश्वं त्रैलोक्यं विसिध्मिये विसि. तम् । राक्षसाः सर्वे संत्रेसुः । राघवश्च बहु मेने । अङ्गदं श्लाघितवानित्यर्थः ॥ ११०६-सुग्रीवो मुमुदे, देवाः सावित्यूचुः स-विस्मयाः, ॥ विभीषणो ऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः ॥३८॥ सुग्रीव इत्यादि-सुग्रीवो मुमुदे हृष्टवान्, देवाः साध्वित्यूचुः, '२४०९। वचि-स्वपि-11१1१५' इति सम्प्रसारणम् । विभीषणो ऽभितुष्टाव अभिष्टुतवान् । 'ष्टुन् स्तुतौ ।' '२२७० । उपसर्गात्-1८।३।६५।' इत्यादिना षत्वम् । प्लवङ्गमाः प्रशशंसुः प्रशंसां कृतवन्तः ॥ ११०७-ही चित्रं लक्ष्मणेनोंदे, रावणिश् च तिरोदधे ॥ _ विचकार ततो रामः शरान् , संतत्रसुर् द्विषः॥३९॥ ही चित्रमित्यादि-हीति विसये। चित्रमाश्चर्यमिति लक्ष्मणेनोदे उक्तम् । वर्भावे लिद । यजादित्वात्सम्प्रसारणम् । रावणिः इन्द्रजित् रावणस्यापत्यम् । १८९५। अव इ ९५।। तिरोदधे अदृश्यो ऽभूत् । ततः अदर्शनानन्तरं रामः शरान् विचकार विक्षिप्तवान् । 'कृ विक्षेपे'। द्विषः संतत्रसुः संत्रस्ताः ॥ ११०८-विभिन्ना जुधुरुर् घोरं, जक्षुः क्रव्याऽशिनो हतान् ,॥ चुश्योत व्रणिनां रक्तं, छिन्नाश् चेलुः क्षणंभुजाः४० विभिन्ना इत्यादि-शरैर्विभिन्ना जुधुरुः घोरं भीमशब्दं कृतवन्तः। 'घुर भीमार्थ-शब्दयोः।' व्याशिनः शृगालादयो हतान् विनष्टान् जक्षुः भक्षितवन्तः। '२४२४। 'लिव्यन्यतरस्याम् ।।१४०' इत्यदेघस्ल । उपधालोपः । '१२ खरि च ॥८॥४५५॥ इति चर्वम् । वणिनां शरैः कृतव्रणानां रक्त Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy