________________
तथा लक्ष्य रूपे कथानके 'शरबन्धो' नाम चतुर्दशः सर्गः - ३५५
तस्तनुरित्यादि - उभये भटा रामरावणसंबन्धिनो योधाः क्षताः सन्तस्तस्तनुः स्तनितवन्तः । जह्वल: चलिताः । 'ह्वल हाल चलने' । मस्लुः म्लानाः । 'म्ले गात्र क्षये ।' जग्लुः हर्षक्षयं गताः । लुलुठिरे भूमौ लुठन्ते स्म । 'रुठ 'लुठ प्रतिघाते' तुदादावात्मनेपदी पश्येते । मुमूर्च्छः मोहमुपगताः । रक्तं ववमुः गीर्णवन्तः । ततृषु तृष्यन्ति सा । एतत् संकुलयुद्धमाह ॥ १०९९ - सम्पातिना प्रजङ्घस् तु युयुधे ऽसौ द्रुमाहतः ॥
चकम्पे, ऽतीव चुक्रोश, जीवनाशं ननाश च ३१
सम्पातिनेत्यादि - प्रजङ्घो नाम राक्षसः सम्पातिनाम्ना वानरेण सह युयुधे युध्यते स्म । भसौ प्रजङ्घो द्रुमाहतश्चकम्पे कम्पते स्म । अतीव अत्यर्थं चुक्रोश क्रोशति स्म । जीवनाशं ननाश जीवेन विनष्टः । '३३६४ | कर्त्रीर्जीवपुरुषयोर्नशिवहोः | ३ | ४|४३|' इति णमुल् ॥
११०० - उच्च नाते नलेना ऽऽजौ स्फुरत्-प्रतपनाऽक्षिणी ॥
जम्बुमाली जहौ प्राणान् ग्राव्णा मारुतिना हतः. ३२ उच्चखनात इत्यादि - स्फुरन् चलन् प्रतपनो नाम राक्षसः तस्याक्षिणी स्फुरतीव प्रतपनस्याक्षिणी नयने नलेन वानरेण उच्चरुनाते उत्खाते । कर्मणि लिट् । '२३६३ । गम-हन - १ ६ ४ ९८१' इत्युपधालोपः । मारुतिना हनूमता ग्रावणा पाषाणेन हतो जम्बुमाली राक्षसः प्राणान् जहौ त्यक्तवान् ॥ ११०१ - मित्रघ्नस्य प्रचुक्षोद गदया ऽङ्गं विभीषणः ॥
·
सुग्रीवः प्रघसं नेभे, बहून् रामस् ततर्द च ॥ ३३ ॥
·
मित्रघ्नस्येत्यादि - मित्रनस्य राक्षसस्य अङ्गं गदया विभीषणः प्रचुक्षोद । प्रघ नाम राक्षसं सुग्रीवो नेभे हिंसितवान् । 'णभ तुभ हिंसायाम्' इत्यनुदा - तेत् । रामश्च बहून् राक्षसान् ततर्द हिंसितवान् । 'उ-तृदिर हिंसाऽनादरयोः ' ॥ १९०२ - वज्रमुष्टेर् विशिश्लेष मैन्देना ऽभिहतं शिरः, ॥
नीलश् चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत्. ३४ वज्रमुटेरित्यादि - वज्रमुष्टे राक्षसस्य शिरो मैन्देन वानरेण अभिहतं सत् विशिश्लेष विश्लिष्टम् । निकुम्भस्य शिरः स्फुरत् चलत् । नीलो वानरश्चक्रेण चकर्त छिन्नवान् ॥
११०३ - विरूपाक्षो जहे प्राणैस् तृढः सौमित्रि-पत्रिभिः, ॥ प्रमोचयांचकाराsसून द्विविदस्त्वशनिप्रभम् . ३५
विरूपाक्ष इत्यादि - विरूपाक्षो राक्षसः सौमित्रिपत्रिभिर्लक्ष्मणशरैः तृटः हृतं इत्यर्थः । 'गृह' [इ] हिंसार्थः [यां ] इति तौदादिकस्योदिस्वान्निष्ठाना
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com