________________
३५४ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः, १०९३-वानरा मुष्टिभिर् जघ्नुर् ददंशुर् दशनैस् तथा, ॥
निरासुश् च गिरीस् तुङ्गान, दुमान् विचकरस् तथा. २५ वानरा इत्यादि-वानरा मुष्टिमिर्जनुः हतवन्तः । राक्षसानित्यत् । दशनैर्ददंशुः दष्टवन्तः। गिरीनिरासुः क्षिप्तवन्तः । दुमान् विचकरुविक्षिप्तवन्तः। '१५०३। कृ विक्षेपे । २३०३। ऋच्छत्य॒ताम् ।७४' इति गुणः ॥ १०९४-लालैर्लोठयांचक्रुस् , तलैर् , निन्युश् च संक्षयम् ॥
नखैश् चकृततुः, क्रुद्धाःपिपिषुश् च क्षितौ बलात्. २६ लाङ्गलैरित्यादि-लाङ्गलैोठयांचक्रुः लालैर्व्यापादितवन्तः । 'रुठ लुठ प्रतिघाते' परस्मैपदिनो प्यन्तस्य रूपम् । तलैर्हस्खतलैः संक्षयं विनाशं निन्युः नीतवन्तः। नखैश्चकृततुरुच्छिन्द्रवन्तः । 'कृती च्छेदने' क्रुद्धाः वानराः बलात् हठात् क्षितौ पिपिषुश्शूर्णितवन्तः ॥ १०९५-संबभूवुः कबन्धानि, प्रोहुः शोणित-तोय-गाः ॥
तेरुर्भटाऽऽस्य-पद्मानि, ध्वजैः फेणैरिवाऽऽबभे, २७ संबभूवुरित्यादि-कबन्धानि संबभूवुः संभूतानि । प्रतिसहस्रं व्यापाद. नात् । कबन्धस्यैकस्योत्पादनात् । शोणिततोयगाः शोणितनद्यः प्रोहुः प्रकर्षण प्रवृत्ताः। वहेर्यजादित्वात् सम्प्रसारणम् । भटास्यपद्यानि योधमुखपद्मानि तेरुः प्लुतानि । '२३०१॥ तृ-फल-६१२२।' इत्यादिना एत्वाभ्यासलोपौ। फेणैरिव ध्वजैः शोणितनदीषु आवभे शोभितम् । भावे लिट् ॥ १०९६-रक्त-पङ्के गजाः सेदुर्, न प्रचक्रमिरे रथाः, ॥
निममज्जुस् तुरङ्गाश् च, गन्तुं नौत्सेहिरे भटाः २८ रक्तपङ्क इत्यादि-रक्तपके गजाः सेदुः निषण्णाः । रक्तपङ्कस बहुल. स्वात् । तथा स्था न प्रचक्रमिरे न गन्तुमारब्धाः '२७१५। प्रोपाभ्याम् । १॥३॥४२॥' इत्यात्मनेपदम् । तुरङ्गा निममज्जुः निमन्नाः । भटाश्च गन्तुं नोत्से. हिरे नोत्सहन्ते स॥ १०९७-कोव्या कोव्या पुर-द्वारमैकैकं रुरुधे द्विषाम् ॥
षत्रिंशद्धरि-कोव्यश् च निवत्रुर् वानराऽऽधिपम् , २९
कोट्येत्यादि-द्विषामेकैकं पुरद्वारं वानराणां कोव्या कोव्या रुरुधे रुदम् । कर्मणि लिट् । पत्रिंशद्धरिकोव्यः वानरकोव्यो वानराधिपं सुग्रीवं निवन्नुः भावृत्य स्थिताः ॥ १०९८-तस्तनुर् ,जह्वलुर् , मम्लुर्, जग्लुर्, लुलुठिरे क्षताः॥
मुमूर्छर्, ववमू रक्तं, ततृषुश् चौभये भटाः ॥३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com