________________
तथा लक्ष्य-रूपे कथानके 'शर-बन्धों' नाम चतुर्दशः सर्गः- ३५३ प्रमाणे-३।४।३२।' इत्यादिना णमुल ऊलोपश्च । मृगाः प्रससपुर्वाम वामपा. क्षेन गता इत्यर्थः । खगाः पक्षिणो ऽशुभान् अनिष्टांचकुविरे शब्दितवन्तः । 'कुङ् शब्दे ।' अशुभमिति पाठान्तरम् । तत्र क्रियाविशेषणं वेदितव्यम् ॥ १०८९-उल्का ददृशिरे दीप्ता, रुरुवुश् चाऽशिवं शिवाः, ॥
चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्.२१ उल्का इत्यादि-दीप्ता उल्का ददृशिरे दृष्टाः। अशिषा अनिष्टाः शिवा गोमायवः रुरुवुः शब्दितवन्तः। मही च चक्ष्माये कम्पिता । 'क्ष्मायी विधूनने' इत्यनुदात्तेत् । रामश्चाशुभागममनिष्टप्राप्तिमाशशङ्के शङ्कते स । चेतसः पर्याकुलत्वात् इदमप्यनिष्टमेव ॥ १०९०-रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः, ॥
स्वयं युयुत्सयांचक्रे प्राकाराऽग्रे निषेदिवान्. ॥२२॥ रावण इत्यादि.-राक्षसानभ्युपेयुषो ऽभिमुखमुपगतवन्तो ये शत्रवो रामादयस्तान् रावणः शुश्रुवान् । स्वयं च प्राकाराग्रे निषेदिवान् निषण्णः सन् । :३०९७। भाषायां सदावस-३।२।१०८।' इत्यादिना कसुः । युयुत्सयांचके योद्ध. मिच्छन्तं प्रयोजितवानित्यर्थः । सन्नन्तण्यन्तस्य रूपम् ॥ १०९१-निरासू राक्षसा बाणान् , प्रजहुः शूल-पट्टिशान् ॥
असींश् च वाहयांचक्रुः पाशैश् चाऽऽचकृषुस् ततैः।। निरासुरित्यादि--रावणप्रचोदिता राक्षसा बाणानिरासुः क्षितवन्तः । शूलपटिशान् शूलसहितान् पटिशान् । शाकपार्थिवादित्वात्तत्पुरुषः । द्वन्द्वे तु ९१०। जातिरप्राणिनाम् ।।४।६।' इत्येकवद्भावः स्यात् । तान् प्रजहुः त्यक्तवन्तः । 'ओहाक् त्यागे।' असींश्च खड्गान् वाहयांचक्रुः व्यापारितवन्तः। ण्यन्तस्य रूपम् । पाशैस्ततैर्विस्तृतैः आचकृषुः आकृष्टवन्तः । कित्वे गुणप्रतिषेधः । १०९२-भल्लैश् च बिभिदुस् तीक्ष्णैर्
विविधुस् तोमरैस् तथा.॥
गदाभिश् चूर्णयांचक्रुः, - शितैश् चक्रैश् च चिच्छिदुः ॥ २४ ॥ भल्लैरित्यादि.-भल्लैर्विभिदुर्विदारितवन्तः । तीक्ष्णैस्तथा तोमरैर्विविखा. डितवन्तः। व्यधेः '२४१२। अहि-ज्या-६॥॥१६' इत्यादिना सम्प्रसारणम् । गदाभिश्च चूर्णयांचाः चूर्णितवन्तः । '२५६३॥ सत्य-३१॥२५।' इत्यादिना णिच् । '१६५७। चूर्णप्रेरणे' इति चौरादिकत्वाद्वा । चिच्छिदुः च्छिन्नवन्तः ।
राक्षेसयुद्धमेतत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
.
.
.