________________
३५२ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षणरूपे प्रथमो वर्गः; ६१३८' इत्यकारलोपो निवर्तते '४१७॥ चौ ।६।३।१३८' इति दीर्घत्वं च । स्वयमिति । रावण उत्तरद्वारमियाय गतः । विरूपाक्षो राक्षसः पुरोदरं पुरमध्यं समध्यासिसिषांचक्रे समध्यासितुमिष्टवान् । आस्तेरनुदात्तेतः सनि इटि अजादिः । '२७३४ । पूर्ववत्सनः ।।३।६२।' इत्यात्मनेपदम् । अनुप्रयोगस्थाप्यात्मनेपदम्॥ १०८५-शुश्राव रामस् तत् सर्वं, प्रतस्थे च स-सैनिकः॥
विस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी. १७ शुश्रावेत्यादि-अथानन्तरं रामस्तत्सर्वं रावणचेष्टितं शुश्राव श्रुतवान् । प्रतस्थे च गन्तुं प्रवृत्तः । '२६८९। समवप्रविभ्यः स्थः ।।३।२२।' इति तङ् । ससैनिकः सह योधैः । सेनायां समवेता इति १५९५। सेनाया वा ।४।४। ४५।' इति पक्षे ठक् । अस्त्रं धनुर्विस्फारयांचकार आरोप्याकृष्टवान् । स्फुरतेः । '२५६९। चिस्फुरोणौँ ।६०५४।' इत्यात्वम् । बबन्ध च बाणधी तूणीरे बनाति स । बाणा घीयन्ते ऽस्मिन्निति । '३२७१। कर्मण्यधिकरणे च ॥३॥३॥ ९३ ।' इति किः ॥ . १०८६-ईक्षांचक्रे ऽथ सौमित्रिमनुजज्ञे बलानि च ॥
_ नमश्चकार देवेभ्यः पर्ण-तल्पं मुमोच च. ॥१८॥ ईक्षामित्यादि-सौमित्रिं च युद्धाय ईक्षांचक्रे दृष्टवान् । ईक्षेरनुदात्तेतः । २२३७॥ इजादेः-३॥१॥३६॥' इत्याम् । बलानि च अनुजज्ञे अनुज्ञातवान् । अनुपूर्वो जानातिरनुज्ञाने वर्तते तस्य परसैपदित्वात् । '२७४३। भनुपसर्गात्१॥३२७६।' इति वचनादात्मनेपदम् । उपसर्गेण युक्तत्वात् । नमश्चकार देवेभ्यः । नमःशब्दयोगे चतुर्थी । पर्णतल्पं पर्णशयनीयं मुमोच मुक्तवान् ॥ १०८७-चकासांचक्रुरुत्तस्थुर्, नेदुरानशिरे दिशः॥
वानरा, भूधरान , रेधुर्, बभञ्जुश्, च ततस्तरून्. चकांसाचरित्यादि-ततो ऽनुज्ञानान्तरं वानरा उत्तस्थुः उत्थिताः । नेदुः शब्दितवन्तः । दिश आनशिरे व्याताः । '२५३३। भनोतेश्च ।७।१।७२।' इत्यभ्यासस्य नुद । '२२४०। भत आदेः ७४७०।' इति दीर्घत्वम् । भूधरान पर्वतान् रेधुः उन्मूलितवन्तः । '२५३२। राधो हिंसायाम् ६४१२३॥' इत्ये. स्वाभ्यासलोपः। तरूंश्च बभर्तुः भग्नवन्तः । एवं च ते चकासांचक्रुः शोभन्ते स्म । कास्यनेकाजग्रहणमित्याम् ॥ १०८८-ददाल भूर्, नभो रक्तं गोष्पदनं ववर्ष च, ॥
मृगाः प्रसस्पुर् वामं, खगाश् चुकुविरेऽशुभम् .२० ददालेत्यादि-श्लोकद्वयं राघवयोर्ब्रह्मास्त्रबन्धसूचनार्थमनिमित्तदर्शनम् । भूर्ददाल विदीर्णा । नभश्च रक्तं रुधिरं ववर्ष वृष्टवत् । लिटः पित्वादकित्त्वे धातोर्गुणः । कियत्प्रमाणं गोष्पदनं यावता गोष्पदं पूरयित्वा । ३३५२। वर्षShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com