________________
३५० भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे प्रथमो वर्गः,
अङ्गुलित्राणि बबन्धुः बध्नन्ति स्म । '१०४२ । बध बन्धने ।' तथा परे सनेहुः कवचानि बध्नन्ति स्म । '१२४१ | णह बन्धने' | परिनिर्ययुः निष्क्रान्ताः ॥ १०७६ - धनूंष्यारोपयांचकुरारुरुहू रथाऽऽदिषु, ॥
अनुवृहु दीप्तान्, गुर्वीरुच्चिक्षिपुर गदाः ॥८॥
धनूंषीत्यादि - धनूंषि आरोपयांचक्रुः भारोपितगुणानि कृतवन्तः । '२५९९ । रुहः पो ऽन्यतरस्याम् |७|३ | ४३ । ' इति णौ पादेशः । आरुरुहुरारोहन्ति स्म रथादिषु । द्वितीया न कृता । अधिकरणत्वेन विवक्षितत्वात् । दीप्तान्निष्कलङ्कानसीन् वहुः कोशादाकृष्य उद्यतान् कृतवन्तः । 'वृह उद्यमने ।' गुर्वीर्गदा उच्चिक्षिपुः उत्क्षिप्तवन्तः ॥
१०७७ - शूलानि भ्रमयांचक्रुर्, बार्णानाददिरे शुभान् ॥ मुश्, चुकुर्दिरे, रेसुर् ववल्गुश् च पदातयः ॥ ९ ॥
शूलानीत्यादि – शूलानि भ्रमयांचकुः भ्रमयन्ति स्म । मान्तत्वान्मित्वे ह्रस्वत्वम् । बाणान् शुभान् युद्धयोग्यानाददिरे गृहीतवन्तः । ' २६८६ । आढो दोऽनास्यविहरणे | १|३|२०|' इति तङ् । पदातयश्च श्रेमुः इतस्ततो याताः । चुकुर्दिरे शस्त्रपाणयः क्रीडितवन्तः । 'कुर्द खुर्द गुर्द गुद क्रीडायामेव ।' रेसुः भयकृते निनादान् कृतवन्तः । 'रस शब्दे ।' ववल्गुः प्रप्लुताः । वल्गतिः 'उख उखि-' इत्यत्र पठ्यते ॥
१०७८ - समुत्पेतुः कशा - घातै, रश्म्याकर्षैर् ममङ्गिरे ॥
अश्वाः, प्रदुद्रुवुर् मोक्षे रक्तं निजगरुः श्रमे ॥१०॥ समुत्पेतुरित्यादि - कशाघातैः चर्मलता प्रहारैः अश्वाः समुत्पेतुः उत्सुताः । रश्म्याकर्षैः प्रग्रहाकर्षणैः । ममङ्गिरे शोभन्ते स्म । सङ्कोचितघोणत्वात् । 'मगि मण्डने ।' मोक्षे रश्मीनां प्रसारणे प्रदुद्रुवुः वेगेन गताः । श्रमे सति खलीनप्रभवं रक्तं निजगरुः पीतवन्तः । ' १५०४। गृ निगरणे ।' '२३८३। ऋच्छत्यृताम् |७|४|११|' इति गुणः ॥
१०७९ - गजानां प्रददुः शारीन्, कम्बलान् परितस्तरुः, ॥
तेनुः कक्षां, ध्वजांश चैव समुच्छिनियुरुच्छिखान्. ११
गजानामित्यादि - गजानां शारीन् प्रददुः । पृष्ठेषु आरोपितवन्तः । हस्तिपका इत्यर्थात् । तथा कम्बलान् नानावर्णविचित्रान् परितस्तरुः आस्तीर्णवन्तः । कक्षां हेमादिमयीं तेनुः विस्तारितवन्तः । उच्छिखान् उद्धृतशिखान् ध्वजान् समुच्छित्रियुः उत्क्षिप्तवन्तः ॥
१०८० - विशिश्वासयिषचक्रुरा॑लिलिङ्गश् च योषितः, ॥ आजघ्नुर् मूर्ध्नि बालांश् च चुचुम्बुश् च सुत- प्रियाः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com