________________
तथा लक्ष्य-रूपे कथानके 'शर-बन्धों' नाम चतुर्दशः सर्गः-- ३४९ भाम्प्रत्ययवत्-1॥३।६३।' इति कृमो ऽनुप्रयोगस्यात्मनेपदे । २५६४। णिचश्च ।१।३७४।' इति आम्प्रत्ययादात्मनेपदस्य विहितत्वात् । पणवा वाद्यविशेषाः हताः पाणविकस्ताडिताः दध्वनुर्ध्वनिताः । काहलाः गोशृङ्गसंस्थानाः । पूरयांचक्रुः पूरितवन्तः । 'पूरी आप्यायने' इति चौरादिकस्योदात्तेतो रूपम् । पेराः खरमु. खाकाराः पूर्णा मुखमरुता सस्वनुः । '२३५४१ फणां च सप्तानाम् ।।४।१२५।' इति लिटि एत्वविधानस्य विकल्पितस्वात् नैत्वम् ॥ १०७२-मृदङ्गा धीरमास्वेनुर् , हतैः स्वेने च गोमुखैः ॥
घण्टाः शिशिञ्जिरे दीर्घ, जहादे पटहैर् भृशम्॥४॥ मृदङ्गा इत्यादि-मृदङ्गा मुरजाः धीरं आस्वेनुः गम्भीर ध्वनिताः। एत्व. पक्षे रूपम् । गोमुखैायविशेषः हतैः स्वेने शब्दितम् । भावे लिट् । घण्टाः दीर्घ शिशिक्षिरे उच्चैः शब्दितवत्यः । पटहै शमत्यर्थम् । जहादे शब्दितम् । भावे लिट् ॥ १०७३-हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर् गजाः, ॥
संत्रस्ताः करभा रेटुश, चुकुवुः पत्ति-पतयः ॥५॥ हया इत्यादि-हया अश्वाः हर्षात् जिहेषिरे हेषितवन्तः । '६६४॥ हेष अव्यक्ते शब्दे' भौवादिको ऽनुदात्तेत् । अभ्यासस्य [:२१८०। हस्वः ।।४।४९] इति एत इद्भवति । गजा गम्भीरं मन्द्रं जगजुः गर्जितवन्तः । 'गज गृजी शब्दार्थों ।' करभा उष्ट्राः संत्रस्ताः नानावादिनश्रवणात् रेटुः शब्दं कृतवन्तः। 'रट परिभाषणे' इति शब्दार्थः । पत्तिपतयः पदातिसंहतयः चुकुवुः शब्दित. वत्यः । गच्छत किं तिष्ठतेति । 'कु शब्दे' इत्युदात्तेत् ॥ १०७४-तुरङ्गा-पुस्फुटुर् भीताः, पुस्फुरुर् वृषभाः परम् ॥
नार्यश् चुक्षुभिरे मम्लुर् मुमुहुः शुशुचुः पतीन्. ६ तुरङ्गा इत्यादि-तुरङ्गा अश्वा भीता वादिश्रवणात् पुस्फुटुः स्फुटिताः भयादितस्ततो गताः। 'स्फुट विशरणे' । वृषभाः परं पुस्फुरुः सुष्टु वलिताः। 'स्फुर वलने ।' नार्यश्चक्षुभिरे असाकमायातो वियोग इति क्षोभमुपगताः। व्यस्तचित्ता जाता इत्यर्थः । काश्चिदामग्लुः । 'ग्लै गात्रक्षये। मुमुहुः काश्चिन्मोहमुपगताः पतीन् काश्चित् शुशुचुः शोचितवत्यः । हा कष्टं नियतं विनष्टा इति ॥ १०७५-जगर्जुर् , जहषुः, शूरा रेजुस् तुष्टुविरे परैः ॥
.. बबन्धुरङ्गुलि-त्राणि, सन्नेहुः परिनिर्ययुः. ॥ ७ ॥ जगर्जुरित्यादि-शूरा जगर्नुः अम्मामिवृष्टाः शराः क यास्यन्तीति शब्दितवन्तः । तथा जहषुः तुष्टाः चिरमायातः समर इति । '१३०८। हुष तुष्टौ ।' भत एवं रेजुः शोभन्ते स । १३५४। फणां च सप्लानाम् ।१२५।' इत्येस्वाभ्यासलोपौ । परैरन्यैस्तुष्टुविरे स्तुताः । भवतामप्रतः समरे के तिष्ठन्तीति ।
भ० का० ३० Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com