________________
३४८ भट्टिकाव्ये - चतुर्थं तिङन्तकाण्डे लक्षण- रूपे प्रथमो वर्गः,
हगणी जलधरसमूहः तेन समच्छायं तुल्यछायं रावणबलं अट्टादिषु समारूढम् ॥ एतानि द्वाविंशतिः संकीर्णानि ।
इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येतृतीये प्रसन्न -काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः (वर्गः ), तथा लक्ष्य-रूपे कथानके 'सेतुबन्धनं' नाम त्रयोदशः सर्गः ॥ १३ ॥
चतुर्दशः सर्गः -
सुप्तिङ्व्युत्पत्तौ यत्सैौष्ठवं तदपि काव्यस्याङ्गमुक्तम् । अतः प्रसन्नकाण्डानन्तरं तिकाण्डं शब्दलक्षणप्रयोगार्थ कथ्यते । तत्र लस्य स्थाने तिबादयः । लकाराश्व नव लेटरछन्दोविषयत्वादिति । अत्र नवविलसितानि । विलसितं च नानारूपता । तत्र भूतार्थवतो लिटो ऽधिकृत्य तद्विलसितमाह -
१०६९–ततो दशाऽऽस्यः स्मर- विह्वलाऽऽत्मा चार प्रकाशीकृत - शत्रु-शक्तिः ॥ विमोह्य माया-मय-राम- मूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम् ॥ १ ॥
तत इत्यादि - ततः स्वपरबलयो रणादुत्तरकालं दशास्यः स्मरविह्नलात्मा कामवशीकृतदेहः । भर्तरि निराशा सती सीता ममानुकूला भविष्यतीति मायामयेन मायास्वभावेन राममूर्ध्ना छिनेन सीतां विमोह्य मोहयित्वा चारैः प्रणिधिमिः प्रकाशीकृता शत्रुशक्तिः वैरिसामर्थ्यं यस्मै योद्धुमनीकं सैन्यं प्रजिघाय प्रहितवान् । '२५३१। हेरचङि | ७ | ३ |५६ | ' इति कुत्वम् । भूतानद्यतनपरोझे सर्वत्र लिट् ॥
१०७० - कम्बूनेथ समादध्मुः, कोणैर् भेर्यो निजघ्निरे, ॥
वेणून पुपूरिरे, गुञ्जा जुगुञ्जः कर-घट्टिताः ॥ २ ॥
:
कम्बूनित्यादि - भथ सैन्यशेषणानन्तरं कम्बून् समादध्मुः शब्दितवन्तः शाङ्खिकाः । कोणैर्वाद्यवादनैः काष्ठमयैः भेर्यो निजघ्निरे ताडिताः कर्मणि लिट् । वेणून वंशान् पुपूरिरे मुखमरुता पूरितवन्तः । १२२६ । पूरी आप्यायने' इति दैवादिको ऽनुदात्तेत् । गुञ्जाः समरवादनाः करघट्टिताः अङ्गुलिष्घृष्टाः जुगुञ्जः शब्दितवत्यः । ' २१२ । गुजि अव्यक्ते शब्दे ' ॥
१०७१ - वादयांचक्रिरे ढक्काः, पणवा दध्वनुर् हताः, ॥ काहलाः पूरयांचक्रुः, पूर्णाः पेराश् च सस्वनुः ॥३॥
वादयामित्यादि - ढक्का वादयांचक्रिरे वादितवन्तः । ढक्कावादका इत्यर्थः । वदेर्हेतुमण्ण्यन्तात् आमि '२३११ | अयामन्त | ६|४|५५|' इत्ययादेशः । '२२४० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com