________________
तथा लक्ष्य-रूपे कथानके 'सेतुबन्धन' नाम त्रयोदशः सर्गः- ३४०
वीर-रसाऽलङ्कारं
गुरु-संचार-हय-दन्ति-स-मही-कम्पम् ॥४७॥ असीत्यादि-अस्थादीनां वरबाणपर्यन्तानां द्वन्द्वः । तैरस्यादिभिः गुरु अनभिभवनीयं पुरु महन्मुसलं पत्र । अस्यादिगुरु च तत् पुरु मुसलं चेति सः। वीररस एवालङ्कारो यस्य । पुरुः संचारो येषां हयदन्तिनां महाकायत्वात् तैः समहीकम्पं सह महीकम्पेन वर्तमानं परबलं संनद्धम् ॥ १०६६-ते रामेण स-रभसं
परितरला हरि-गणा रण-समारम्भे ॥ रुद्धा लङ्का-परिसर
भू-धर-परिभङ्ग-लालसा धीर-रवम्. ॥ ४८ ॥ ते इत्यादि-ते हरिगणाः कपिगणाः रणसमारम्भे रणप्रवर्तन निमित्तं सरभसं संभ्रमपूर्वकं परितरलाः स्थातुमशक्नुवन्तः लङ्कापरिसरे लङ्कासमीपे ये भूधराः तरवः तेषां परिभङ्गे चूर्णने लालसाः सतृष्णाः सन्तो रामेण रुद्धाः प्रतिषिद्धाः मा भाङ्करिति । धीररवं धीरो रवो यस्यां प्रतिषेधनक्रियायामिति ॥
युग्मकम्१०६७-जल-तीर-तुङ्ग-तरु-वर
कन्दर-गिरि-भित्ति-कुञ्ज-विवराऽऽवासम् ।। भीमं तरु-हरिण-बलं
सु-समिद्ध-हिमारि-किरण-माला-लोलम्. ४९ जलेत्यादि-तरुहरिणवलं कपिबलं निषिद्धं सत् भीमं भयानकं जलतीराद्यैरावासो यस्य तत् सुसमिद्धस्य हिमारेरमेरादित्यस्य वा या किरणमाला तहल्लोलं समारूढमिति वक्ष्यमाणेन संबन्धः ॥ १०६८-रावण-बलमवगन्तुं
जल-भर-गुरु-सलिल-वाह-गण-सम-च्छायम् ।। अट्ट-तरु-मञ्च-मन्दिर
तोरण-माला-सभासु समारूढम्. ॥५०॥ इति भहि-काव्ये प्रसन्न काण्डे भाषा-समावेशो
नाम चतुर्थः, काव्यस्य त्रयोदशः सर्गः। रावणेत्यादि-रावणवलं अवगन्तुं कीदृशमिति जलभरेण गुरुर्यः सलिलमाः Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com