SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३४६ भट्टिकाव्ये - तृतीये प्रसन्न -काण्डे लक्षण-रूपे चतुर्थी वर्गः, वाहास्तेषां मालाया (यत्संबद्धं) यः संबन्धः संबन्धनं । भावे क्तः । तेन करणभूतेन आबद्धा अनुकृता हिमधराधरस्य हिमवतो धराधरस्य लीला विभ्रमो येन तं सुवेलं आरूढम् ॥ रामबलं कीदृशमित्याह- १०६२ - लवण - जल-बन्ध-स-रसं तरु-फल-संपत्ति-रुद्ध-देहाऽऽयासम् ॥ लङ्का-तोरण-वारण मारूढं समर - लालसं - राम- बलम् ॥ ४४ ॥ 1 लवणेत्यादि - लवणजलबन्धाद्धेतोः सरसं सहर्षन् । तरुफलसंपत्या रुद्धोsपनीतः देहायासः क्षुत्पीडा यस्य । लङ्कातोरणस्य वारणं निषेधकम् । आलोलं चञ्चलं समरलालसं रणसं तृष्णं रामबलं तं सुवेलमारूढमिति पूर्वेण योज्यम् ॥ तस्मिन्नारूढे परबलं सन्नद्धमित्थं प्रवृत्तमित्यर्थः । इत्थं कथं तदाह मुरुपणवेत्यादिना - विशेषकं त्रिभिः । ४५–४७/ १०६३ - गुरु- पणव- वेणु-गुञ्जाभेरी-पेलोरु-झल्लरी - भीम-खम् ॥ ढक्का - घण्टा - तुमुलं सन्नद्धं पर-बलं रणाऽऽयास सहम् ॥ ४५ ॥ गुर्वित्यादि - गुरुपणवादीनां भीमो रखो यस्मिन् परबले तत्र । गुरुपणवो महान् पणवः । पेला वाद्यविशेषः । उरझल्लरी महती झल्लरी । ढक्काघण्टयोस्तुमुलः संमूच्छितः शब्दो यत्रेति । रणायाससहं रण क्लेशसहम् ॥ १०६४ - आरूढ - बाण-घोरं वि-मलाऽऽयस- जाल - गूढ- पीवर - देहम् ॥ चञ्चल-तुरङ्ग-वारण संघट्टाऽऽबद्ध - चारु- परिणाह-गुणम् ॥ ४६ ॥ आरूढेत्यादि— धनुषि आरूढबाणत्वात् घोरं परबलम् । विमलेनायसजालेन वर्मणा गूढछन: पीवरः स्थूलो देहो यस्य । चञ्चलानां तुरङ्गाणां वारणानां च यः परस्परसंघट्टः श्लेषणं तेनाबद्धश्चारुः परिणाहगुणः विस्तार एत्र गुणो यस्य तत्परबलं संनद्धम् ॥ १०६५ - असि - तोमर - कुन्त-महा पट्टिश-भल्ल - वर-बाण-गुरु-पुरु-मुसलम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy