________________
तथा लक्ष्य रूपे कथानके 'सेतुबन्धनं' नाम त्रयोदशः सर्गः - ३४५
अमराऽऽरूढ - परिसर मेरुमिवा ssविल-स-रस- मन्दार - तरुम् ॥४०॥
अमलेत्यादि - अमलमणीनां हेमादीनां टङ्कारछेदा यत्र । तुङ्गा उच्चा महती विस्तारवती या भित्तिस्तया रुद्धो रुरूणां मृगाणां पङ्कगमः पङ्केन गमनं यत्र । गमेः '३२३४ | ग्रह | ३ | ३|५८ | ' इत्यादिना अप् । वङ्कगमं इति पाठान्तरम् । तत्र वङ्कः कुटिलो गमो यत्र । 'वकि कौटिल्ये' इत्यस्य रूपम् । अमरेरारूढाः परिसरास्तटा यत्र । अविरलाः सरसा मन्दारतरवो देववृक्षा यत्र । तमित्थं मेरुमिव ॥
१०५९ - फल - भर - मन्थर-तरु-वर
- विदूर - विरूढ- हारि - कुसुमापीडम् ॥
हरिणकलङ्क-मणि-संभवबहु-वारि-भर- सुगम्भीर - गुहम्. ॥ ४१ ॥
फलेत्यादि - फलभरेण मन्थरा ईषन्नतास्तरुवरा यत्र । अविदूरे विरूढा हारिणः कुसुमापीडा यत्र । - पुष्पस्तबकानां हस्तग्राह्यत्वात् हरिणकलङ्कमणिः महाचन्द्रकान्तः तस्मात् संभवो यस्य बहुवारिणः तेन सुभराः परिपूर्णा गम्भीरा गुहा यस्य । अत्र मणिमहत्तया वारिमहत्त्वात् गम्भीरगुहापूरणमिति ॥
१०६० - जल - काम - दन्ति-संकुल
स- हेम-रस-चारु-धवल-कन्दर- देहम् ॥ अङ्कुर-रोह- सम-च्छविरुरु-गण-संलीढ-तरल-हरि-मणि - किरणम् ४२
जलेत्यादि - जलमेतदित्येवं कामैर्दन्तिभिः संकुलाः सहेमरसाः सह हेम रसेन वर्तमानाः चारवः शोभनाः धवलाः कन्दरदेहाः कन्दरसन्निवेशा यत्र । रोहणं रोहः अङ्कुराद्रोहो यस्य शस्यस्य तेन समच्छवयस्तुल्यवर्णा रुरुगणास्तैः संलीढाः तरलाश्चञ्चलाः हरिमणिकिरणा मरकतमयूखा यत्र ॥
१०६१ - गाढ - समीरण - सुसहं
भीम-वोत्तुङ्ग -वारि-घर संघट्टम् ॥
धवल-जल - वाह-माला
संबन्धाऽऽबद्ध - हिम-धरा-धर- लीलम्. ॥ ४३ ॥
गाढेत्यादि - गाढो महान् यः समीरणः तं सुसहत इति मूलविभुजादिस्वात्कः । भीमरवास्तुङ्गा ये वारिधरास्तेषां संघट्टो यत्र । धवला ये जलShree Sudharmaswami Gyanbhandar - Umara, Suratwww.umaragyanbhandar.com