________________
३४४ भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे चतुर्थी वर्गः,
चारु-गुहा- विवर-सभ सुर-पुर- समममर - चारण- सुसंरावम् ॥ ३६ ॥
तुङ्गेत्यादि - तुङ्गमणीनां किरणजालं यत्रेति । गिरिजलानि निर्झरजलानि तेषां यः संघट्टः परस्परसंश्लेषस्तेन बद्धो गम्भीरो रवो यत्र । चारुगुहाविवरमेव सभा शाला यत्र । भ्रमरचारणानां गन्धर्वाणां गायतां शोभनः संरावो यत्र । अत एवामरपुरसमम् ॥
१०५५ - विमल-महा-मणि- टङ्कं
सिन्दूर - कलङ्क - पिञ्जर-महा-भित्तिम् ॥ वीर- हरि-दन्ति-सङ्गम
भय-रुद्ध-विभावरी- विहार-समीहम् ॥ ३७ ॥
विमलेत्यादि - विमलमहामणीनां पद्मरागादीनां टङ्काः छेदा यत्र । अतश्च सिन्दूरकलङ्केन लान्छनेन पिञ्जरा इव महाभित्तयो यस्य । वीराणां हरीणां दन्तिनां च यः सङ्गमो ऽन्योन्यगमनं तस्माद्यद्भयं तेन रुद्धा निवारिता विभा• व विहारसमीहा विहरणेच्छा यंत्र ॥
१०५६ - स महा - फणि- भीम- बिलं
भूरि- विहङ्गम-तुमुलोरु- घोर-विरावम् ॥ वारण - वराह - हरि-वर
. गो-गण- सारङ्ग- संकुल- महा-सालम् ॥ ३८ ॥
समेत्यादि - समहाफणीन्यत एव भीमानि बिलानि विवराणि यत्र भूरीणां विहङ्गमानां तुमुलो ऽनेकप्रकार उरुर्महान् घोरो रौद्रो विरावो यत्र वारणादिभिः स्कन्धकर्षणार्थिभिः सङ्कुला महासाला यत्र ॥
१०५७ - चल - किसलय- स-विलासं
चारु-मही-कमल- रेणु - पिञ्जर-वसुधम् ॥ स- कुसुम - केसर-बाणं
लवङ्ग-तरु-तरुण-वल्लरी- वर-हासम् ॥ ३९ ॥
चलेत्यादि - चलैः किसलयैः हस्तैरिव सविलासं प्रारब्धनृत्यम् । चारूणां महीकमलानां स्थलजानां रेणुभिः पिञ्जरा वसुधा यत्र । सकुसुमाः केसराः बाणाश्च यत्र । लवङ्गतरोस्तरुणा या वल्लुर्यः प्ररोहास्ता एव वरो हासो विकासाख्यो यत्र ॥
१०५८ - अ- मल-मणि - हेम-टङ्कं तुङ्ग-महा-भित्ति-रुद्ध - रुरु- पङ्क-गमम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com