________________
तथा लक्ष्य-रूपे कथानके 'सेतुबन्धन' नाम त्रयोदशः सर्गः- ३४३ लङ्केत्यादि-उकालयानां राक्षसानां यस्तुमुलो महानारवः तेन सुमराः परिपूर्णाः गभीरोरुकुजा गम्भीरमहागहनानि कन्दरविवराणि च यत्र सुवेले। वीणारवे यो रसस्तृष्णा तेन सङ्गमः समागमो येषां सुरगणानां ते च सुरगणावेति सः। तैः संकुला व्याप्ता महातमालच्छाया यत्रेति ॥ १०५१-स-रस-बहु-पल्लवाऽऽविल
केसर-हिन्ताल-बद्ध-बहल-च्छायम् ॥ ऐरावण-मद-परिमल
गन्धवहाऽऽबद्ध-दन्ति-संरम्भ-रसम् ॥ ३३ ॥ सरसेत्यादि-सरसाः सार्दाः ये बहवः पल्लवा: तैराविला अन्धकारिता ये केसरवृक्षाः हिन्तालवृक्षाश्च तैबंद्धा बहला घना छाया यत्र सुवेले। ऐरावणस्य ऐरावतस्य हस्तिनो मदपरिमलो यस्मिन् गन्धवहे तादृशेन गन्धवहेन बद्धो दन्तिनां हस्तिनां संरम्भरसः क्रोधरसो यत्रेति । ऐरावण ऐरावत इत्युभयमपि प्राकृते साधु ॥ १०५२-तुङ्ग-तरु-च्छाया-रह
कोमल-हरि-हारि-लोल-पल्लव-जालम् ॥ हरिण-भयंकर-स-कुसुम
दाव-सम-च्छवि-विलोल-दाडिम-कुञ्जम्॥३४॥ तुङ्गेत्यादि-तुङ्गतरूणां या छाया तस्यां रोहन्तीति इगुपधलक्षणः कः । तुङ्गतरुच्छायारुहाः विटपाः तेषां कोमलं हरि हरितं हारि तुष्टिकरं लोलं पल्लवजालं यत्र । हरिणानां भयंकरा दावसदृशत्वात् सकुसुमदावसमच्छवयः दावामितुल्याः लोलदाडिमकुक्षा यत्र ॥ १०५३-कल-हरि-कण्ठ-विरावं
सलिल-महा-बन्ध-संकुल-महा-सालम् ॥ चल-किसलय-संबद्धं
मणि-जालं सलिल-कण-मयं-विवहन्तम्॥३५॥ कलेत्यादि-कलो मनोहरः हरीणां कण्ठविरावो यत्र । सलिलस्य यो महाबन्धस्तेन संकुला महान्तः सालाः सालवृक्षा यत्र । चलकिसलयेषु संबई संलग्नं सलिलकणमयं सलिलकणरूपं मणिजालं मणिसमूहमिव विवहन्तं धारयन्तम् ॥ १०५४-तुङ्ग-मणि-किरण-जालं
गिरि-जल-संघट्ट-बद्ध-गम्भीर-रवम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com