________________
"
तथा लक्ष्य रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः -
'२२६७॥ वद-ब्रज | ७|२| ३ |' इत्यादिना वृद्धिः । ' २३४२ । सः स्यार्धधातुके । ७|४| ४९ |' इति तत्वम् । आसनमिति ' ५४४ । उपान्वध्यावसः | १|४|४८ ' इत्यधिकरणस्य कर्मसंज्ञा ॥ त्रीण्यम्बकान्यक्षीणि अस्येति त्र्यम्बको महादेवस्तस्मादन्यं नोपास्थित । न पूजितवानित्यर्थः । उपपूर्वात्तिष्ठतेः 'देवपूजा - सं. गतिकरण-मित्रकरण पथिषु ।' इति देवपूजायां तङ् । '२३८९। स्था-ध्वोरिच्च । १।२।१७।' इत्यादिनेच्त्वं कित्त्वं च । '२३६९ ॥ ह्रस्वादङ्गात् |८|२|२७|' इति सिचो लोपः ॥ इषूम्बिभ्रतीति । '२९८० । अन्येभ्योऽपि दृश्यन्ते |३|२|७५ | ' इति क्विप् । इषुभृतो धनुर्धराः सर्वेषां तेषां यशांसि निरस्थत् । निरस्तवानित्यर्थः । एतेनास्यासाधारणीकृतास्त्रत्वं दर्शितम् । ' उपसर्गादस्यत्यूह्योर्वा वचनम्' इति वचनाद्यदा उङ् नास्ति तदा तिपू । ' २४३८ । अस्यति | ३ | १/५२ | ' इत्यादिना च्लेरङ् । '२५२० । अस्य स्थुक् | ७|४|१७' ॥
४ - पुण्यो महा-ब्रह्म-समूह-जुष्टः संतर्पणो नाक- सैदां वरेण्यः ॥ जज्वाल लोक - स्थितये स राजा यथाऽध्वरे वह्निर॑भिप्रैणीतः ॥
पुण्य इत्यादि - पुनातीति पुण्यः । ' पूजो यत् शुक् हस्वश्च' इत्यौणादिको यत् णुगागमश्च ह्रस्वश्च । अत्यन्त पुण्यकरणाद्राजापि पुण्य इत्युच्यते । तन्मयत्वाद्वाजा | अग्निरपि पुण्यः पावनत्वात्पुण्यः । यागादिः पुण्यस्तेन पुरुषः पूयते । महतां वेदविदां ब्रह्मणां ब्राह्मणानां समूहेन जुष्टः सेवितो राजाग्निश्च । ब्रह्मशकदोन ब्राह्मणपर्यायः । नाके स्वर्गे सीदन्तीति '२९७५। सत्-सू- द्विष - 1३1२ 1 ६१|' इत्यादिना किप् । नाकसदो देवास्तेषां । कर्मणि षष्ठी । संतर्पयति प्रीणयतीति संतर्पणः । संतर्पयतेः '२८४१ | कृत्यल्युटो बहुलम् | ३ | ३|११३ |' इति कर्तरि ल्युट् । राजा यागादिना तर्पयति । अग्निरप्यभिमुखत्वा देवानाम् । वरेण्यः श्रेष्ठो राजाग्निश्च । 'वृङ एण्यः' । जज्वाल प्रदीप्तवान् । लोकस्थितये माभूलोकस्य स्थित्यतिक्रम इत्येवमर्थम् । अग्निरपि लोकस्य स्थितये ज्वलति । यथोक्तम्'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः
।
१- '१३२२ । वेदस् तत्त्वं तपो ब्रह्म, ब्रह्मा विप्रः प्रजापतिः ।' इति ना० अ० । यथा- 'ब्रह्माणौ ब्रह्मणो ब्रह्म ब्राह्मणा वेत्तुमईतः । एतत् पद्याऽर्थ बाह्याऽर्थोऽपि न स्यात् कोशमन्तरा ॥ इति कोशाऽवतंसः । २ – २९७५ । सत्-सू- द्विष- दुइ-दुइ-युज- विद भिदच्-छिद-जि-नी-राजामुपसर्गेऽपि किप् ( ० ) | ३ |२|६११' एभ्यः किप् स्यादुपसर्गे सत्यसति च सुप्युपपदे । यथा-चु-सत् । उप-निषत् । अण्डसूः । प्रसूरित्यादि ।" इति चै० भ० । ३ – '२२८७। उपसर्गाद-समासेऽपि णोपदेशस्य | ८ |४| १४ | उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदति ।'
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com