SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३३८ भट्टिकाव्ये – तृतीये प्रसन्न काण्डे लक्षण-रूपे चतुर्थो वर्गः, आरूढं सहसा खं वरुणाऽऽलय-विमल-सलिल-गण- गम्भीरम् १६ गुर्वित्यादि - ततो रामबलं सहसा तत्क्षणं खमारूढम् । गुरूणां गिरिवराणां यदाहरणमानयनं तत्सहत इति मूळविभुजादित्वात् कः । तस्य वा सह शक्तम् । सहत इत्यच् । संहारे प्रलये यो हिमारिरग्निः तद्वत्पिङ्गलम् । वरुणालयस्य समुद्रस्य यो विमलसलिलगणः निर्मलजलसमूहः तद्वद्गम्भीरं खमिति ॥ कलापकं चतुर्भिः १७-२० - १०३५ - अवगाढं गिरि-जालं तुङ्ग-महा-भित्ति-रुद्ध- सुर-संचारम् ॥ अ- भरि रास-भीमं करि - परिमल - चारु- बहल - कन्दर- सलिलम्. १७ अवगाढमित्यादि - खमारुह्य रामबलेन गिरिजालमवगाढं अवष्टब्धम् । तुङ्गाभिरुच्छ्रिताभिर्महतीभिः परिणाहवतीमिभित्तिभी रुद्धः सुराणां संचारो यस्मिन् तेषामुन्नतत्वात् । अभया ये हरयः सिंहास्तेषां रासेन शब्देन भीमं भयानकम् । करिणां यः परिमलः संमर्दस्तेन चारु शोभनम् । बहलं घनं कन्द• रसलिलं यस्मिन् ॥ 1 १०३६ - अलि-गण-विलोल - कुसुमं स-कमल-जल-मत्त - कुरर-कारण्डव-गणम् ॥ फणि-संकुल- भीम-गुहं करि-दन्त-समूढ - स-रस- वसुधा - खण्डम् ॥ १८॥ अलिगणेत्यादि - अलिगणैर्विलोलानि कुसुमानि यत्र । सकमलेषु जलेषु मत्ताः कुरराणां कारण्डवानां च गणा यत्र । फणिभिः संकुला व्याप्ताः सत्यो भीमा गुहा यत्र । करिदन्तैः समुत्क्षिप्तं सरसं सान्द्रं वसुधायाः खण्डं यत्र ॥ १०३७ - अरविन्द - रेणु-पिञ्जर सारस-रव-हारि - विमल - बहु- चारु-जलम् ॥ रवि-मणि-संभव -हिम-हर समागमाऽऽबद्ध-बहुल - सुर-तरु- धूपम् ॥१९॥ अरविन्देत्यादि - अरविन्दरेणुभिः पिञ्जराः पिङ्गला ये सारसास्तेषां रवेप्य हारि मनोहारि विमलं बहु चारु जलं यत्रेति । रविमणिसंभवः सूर्यकान्तमणिसम्भवः यो हिमहरः अग्निः तेन यः समागमः संश्लेषस्तेनाबद्वो जनितो बहुल: सुरतरुधूपो यत्र ॥ : Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy