________________
तथा लक्ष्य-रूपे कथानके 'सेतुबन्धनं नाम त्रयोदशः सर्ग:- ३३९ १०३८-हरि-रव-विलोल-वारण
गम्भीराऽऽबद्ध-स-रस-पुरु-संरावम् ॥ घोणा-संगम पङ्काऽऽ. विल-सुबल-भर-महोरु-वराहम् ॥ २० ॥
एतानि पञ्च संकीर्णानि ॥ हरिरवेत्यादि-हरीणां सिंहानां यो स्वस्तेन विलोलास्त्रमवो ये वारणास्तैर्गम्भीरो मन्द्र भाबद्धो जनितः सरसो भयानकरसयुक्तः पुरुर्महान् संरावो पत्र । घोणायाः संगमात् संपर्कात् संभवो यस्य पङ्कस्य । घोणासमुद्धृतो यः पङ्क इत्यर्थः । तेनाविला: लिप्ताङ्गाः सुबलाः तत एव भरसहाः उरवश्व वराहा यत्र । तगिरिजालमालमवगाढमिति ॥ एतानि पञ्च संकीर्णानि ॥ १०३९-उच्चख्नुः परिरब्धान्
कपि-सङ्घा बाहुभिस् ततो भूमि-भृतः॥ निष्पिष्ट-शेष-मूर्ध्नः शृङ्ग-विकीर्णोष्ण-रश्मि-नक्षत्र-गणान्. ॥२१॥
सर्व निरवद्यम्॥ उच्चख्नुरित्यादि-ततोऽवगाहादनन्तरं बाहुभिः परिरब्धान् समाश्लिष्टान् भूमिभृतः पर्वतान् कपिसङ्घा उच्चख्नुः उत्खातवन्तः । '२३६३। गम-हन१६१९८॥' इत्युपधालोपः। निस्पिष्टशेषमूर्ध्नः व्याप्तपातालमूलत्वात् चूर्णितनागराजमस्तकान् । शृङ्गैः शिखरैविकीर्ण उष्णरश्मिरादित्यो नक्षत्रगणश्च यैर्दिवं व्याप्य स्थितत्वात् ॥ सर्व निरवद्यमिति अत्र प्राकृतस्याप्रयुक्तत्वात् ॥
विशेषकं त्रिभिः । २२-२४।१०४०-तुङ्ग-महा-गिरि-सुभरा
बाहु-समारुद्धभिदुर-टङ्का बहुधा ॥ लवण-जल-बन्ध-कामा
आरूढा अम्बरं महा-परिणाहम् ॥ २२ ॥ तुङ्गेत्यादि-तुङ्गा उच्चा महान्तः परिणाहवन्तो ये गिरयस्तैः सुभरा जातभराः कपयः बाहुभिः समारुद्धा भिदुराः विदारणशीला: टङ्का उन्नतप्रदेशा यैस्ते बहुधा अनेकप्रकारं लवणजलबन्धकामाः एवमेवं बद्धव्यमिति जातेच्छाः भारूढा अम्बरं महापरिणाहम् अप्रमेयदिग्विभागम् ॥ १०४१-बहु-धवल-वारि-वाहं
विमलाऽऽयस-महाऽसि-देह-च्छायम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com