________________
तथा लक्ष्य-रूपे कथानके 'सेतुबन्धन' नाम त्रयोदशः सर्गः- ३३७ १०३१-हर-हास-रुद्ध-विगमं
पर-कण्ठ-गणं महाऽऽहव-समारम्भे ॥ छिन्दन्तु राम-बाणा
गम्भीरे मे जले महा-गिरि-बद्धे. ॥ १३ ॥ हरेत्यादि-मे मम जले गम्भीरे अगाधे महागिरिमिद्धे सति यो महाहवस्य समारम्भः प्रवर्तनं तस्मिन् परस्य शत्रोः कण्ठगणं ग्रीवासमूहं हरस्य तुष्टत्वात् यो हासः तेन रुद्धो विगमश्छेदो यस्य तं रामशराश्छिन्दन्तु । आशिषि लोट् ॥ १०३२-गच्छन्तु चारु-हासा
वीर-रसाऽऽबन्ध-रुद्ध-भय-संबन्धम् ।। हन्तुं बहु-बाहु-बलं हरि-करिणो गिरि-बरोरु-देहं सहसा. ॥१४॥
एतानि षट् संकीर्णानि ॥ गच्छन्त्वित्यादि-बहवो बाहव एव बलं यस्य बाहूनां तरूणामिव बहुत्वात् । तं रावणं वीररसस्य शौर्यस्य य आबन्धः सन्ततप्रवर्तनं तेन रुद्धो निवारितो भवसंबन्धस्त्राससंपर्को यस्य तं गिरिवरोरुदेहं गिरिवन्महाकायं सहसा हन्तुं तत्क्षणं हनिष्याम इति हरिकरिणः कपिहस्तिनः चारुहासाः मम जले बढे सति गच्छन्तु ॥ एतानि षट् संकीर्णानि संस्कृतप्राकृतयोस्तुल्यस्वात् ॥ १०३३-जिगमिषया संयुक्ता
बभूव कपि-वाहिनी मते दाशरथेः॥ बुद्ध-जलाऽऽलय-चित्ता गिरि-हरणाऽऽरम्भ-संभव-समालोला. ॥१५॥
पूर्वाऽध निरवद्यम् । जिगमिषयेत्यादि-दाशरथेमतेऽभिप्राये सति कपिवाहिनी कपिसेना जिगमिषया गन्तुमिच्छया संयुक्ता बभूव । बुद्धजलालयचित्ता विदितसमुद्राभिमाया गिरीणां यद्धरणमानयनं तस्य य भारम्भसंभवः तेन समालोला भाकुला ॥ इत्येतदर्ध निरवद्यम् ॥ १०३४-गुरु-गिरि-वर-हरण-सहं
संहार-हिमारि-पिङ्गलं राम-बलम् ॥
भ० का० २९ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com