________________
३४ भट्टिकाव्ये तृतीये प्रसन्न-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
गाढेत्यादि-गाढं सुष्टु गुरोः पुङ्खस्य या पीडा पीडनम् अङ्गुष्ठाभ्यां तया हेतुभूतया सधूमसलिलारेः अग्नेः संभवो यत्र स महाबाणो यस्य रामस्य तस्मिन् सति । महासंदेहमारूढा संशयं प्राप्ता समहीधरा मही सफणिसभा सह भुजअसमूहेन । धारयन्तीति धराः । अत्र धकारस्य पदमुखे वर्तमानस्य हकारो न भवति । प्राकृते पदमध्यान्तयोर्विधीयमानत्वात् । महीधर इति समस्तपदे ऽपि न प्रवर्तते। अत्र पूर्वपदमुत्तरं पदमिति व्यपदेशात् । एवं च सति गोधर-वज्रधर-चक्रधर-शङ्खधरादिषु न प्रवर्तते। महीधरो महीधर इत्युभयमपि प्राकृते प्रयुज्यते । महमानां विकल्पैन इस्वदर्शनात् ॥ १०२२-घोर-जल-दन्ति-संकुल
मट्ट महापङ्क-काहल-जलाऽऽवासम् ॥
आरीणं लवण-जलं . . समिद्ध-फल-बाण-विद्ध-घोर-फणि-वरम् ॥ ४ ॥
घोरेत्यादि-रामेणाग्नेये शरे क्षिप्ते सति लवणजलमारीणं समन्तात् शु.. कम् । ११३८॥ रीङ् स्रवणे' इत्यस्मात् निष्ठातकारस्य 'स्वादय ओदितः' इति नवम् । १९७। अट्-कुपु-11' इति णत्वम् । रीणमित्यप्रयोगः प्राकृते महाराष्ट्रे तस्याप्रयोगात् । घोरैः रौद्रै लदन्तिमिः संकुलं व्याप्तम् । अट्टः शुष्को यो महापङ्कः तेन काहला विह्वला जलावासा मत्स्यादयो यत्र । '२६३१ अट्ट अतिकम-हिंसनयोः' इत्यस्य रूपम् । समिद्धफलेन दीसफलेन बाणेन विद्धाः घोराः फणिवराः महासा यत्रेति ॥ १०२३-सं-भयं परिहरमाणो
महाऽहि-संचार-भासुरं सलिल-गणम् ॥ आरूढो लवण-जलो
जल-तीरं हरि-बलाऽऽगम-विलोल-गुहम् ॥५॥ समयमित्यादि-सलिलगणं सलिलसमूहं सभयम् । महाहीनां संचारणं भामुरं भासनशीलम् । तच्छिरोमणिद्योतितत्वात् परिहरमाणः परित्यजन् । कत्रमिप्राये तछ । लवणजलः समुद्रः । लवणं जलमस्येति । जलतीरं तटं यत्र रामस्तिष्ठति तदारूढः संप्राप्तो मूर्तिमान् । हरिबलागमेन वानरसैन्यागमेन विलोला व्याकुला गुहा यत्रेति ॥ १०२४-चञ्चल-तर-हरिण-गणं
बहु-कुसुमाऽऽबन्ध-बद्ध-रामाऽऽवासम् ॥
हरि-पल्लव-तरु-जालं ' तुङ्गोरु-समिद्ध-तरु-वर-हिम-च्छायम् ॥ ६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com