________________
तथा लक्ष्य-रूपे कथानके 'सेतुबन्धन' नाम त्रयोदशः सर्गः- ३३५
: चञ्चलेत्यादि-चञ्चलश्चपलः तरुहरिणानां वानराणां गणो यत्र जलतीरे। बहुकुसुमानां वृक्षाणामाबन्धेन परस्परसंश्लेषेण बद्धो घटितो रामावासो यत्र। हरिपल्लवानि तरुजालानि यत्र । तुङ्गा उरवः परिमण्डलाः समिद्धा उज्वला ये तरुवरास्तैर्हिमा शीतला छाया यत्र तजलतीरम् ॥ १०२५-वर-वारणं सलिल-भरेण
गिरि-मही-मण्डल-संवर-वारणम् ॥ वसु-धारयं तुङ्ग-तरङ्ग-सङ्गपरिहीण-लोल-वसुधा-रयम् ॥ ७ ॥
कुलकम् ॥ एतानि सप्त संकीर्णानि ॥ वरेत्यादि-वरा उत्कृष्टा वारणा यन्त्र । सलिलभरेण सलिलसमूहेन यो गिरीणां महीमण्डलस्य च संवरः संवरणमावरणम् । '३२३४। ग्रह-३।३१५८ इत्यादिना । तस्य वारणं निषेधकम् । समुद्रस्य वेलातिकमात् । वसु द्रव्यं तस्य धारयं धारकम् । २९००। अनुपसर्गात्-३॥१॥१३॥' इति णिजन्ताच्छः । तुङ्गाः अभ्रंलिहा ये तरङ्गास्तैः सह यः सङ्गः संश्लेषः तस्मात् परिहीणो नष्टो लोलो वसुधायां तत्संबन्धिन्यां रयो वेगो यत्र तजलतीरमारूढः । गणितक्रममेतत् । एतानि सप्त संकीर्णानि । संस्कृतप्राकृतयोरविशिष्टत्वात् ॥ १०२६-प्रणिपत्य ततो वचनं
जगाद हितायतो पति वारीणाम् ॥ गङ्गाऽवलम्बि-बाहू
रामं बहोरु-हरि-तमाल-च्छायम्. ॥ ८॥ प्रणिपत्येत्यादि-ततस्तीरप्राप्तेरनन्तरं वारीणां पतिः समुद्रः रामं प्रणिपत्य वचनं जगाद । हितमात्मनो रामस्य पथ्यमायतावागामिनि काले । गडावलम्बी गङ्गावलम्बनशीलः संपूर्णत्वाद्वाहुर्यस्य स गङ्गावलम्बिबाहुः। संस्कृते १७॥ ढलोपे पूर्वस्य दीर्घो ऽणः ॥६॥३॥११॥' प्राकृते तु पुंलिङ्गे उकारस्य दीर्घत्वम् । विभतिसकारस्य च लोपः । उरुर्महान् हरिः हरितो यस्तमालः । बहुला धना तस्येव छाया यस्य तमिति । पूर्वार्धे निरवद्यामिति । पूर्वस्मिन्नर्धे प्राकृतस्याभावात् निरवा पश्चादर्धे तु संकीर्णमेव ॥
पूर्वाऽधं निरवद्यम् १०२७-'तुङ्गा गिरि-वर-देहा,
अ-गमं सलिलं, समीरणो रस-हारी, ॥ अ-हिमो रवि-किरण-गणो,
माया संसार-कारणं ते परमा. ॥९॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com