________________
तथा लक्ष्य रूपे कथानके 'सेतुबन्धनं' नाम त्रयोदशः सर्गः - ३३३ त्रयोदशः सर्गः -
काव्यं संस्कृतप्राकृतापभ्रंशभेदात्रिविधम् । तत्र शब्ददेशीयपदयोः प्राकृतभाषयोरपभ्रंशस्य च संस्कृतभाषायां समावेशासंभवात् शब्दसमायाः प्राकृतभाषायाः समावेशः । तमार्यागीत्या स्कन्धकलक्षणया दर्शयन्नाह ॥
1
विभीषणागमनात्प्राकू यद्वृत्तं रामस्य तदाह
: १०१९ - चारु- समीरण - रमणे
हरिणकलङ्क - किरणाssवली-स-विलासा ॥ आबद्ध-राम- मोहा
'वेला - मूले विभावरी परिहीणा ॥ १ ॥
1
चार्वित्यादि - रामो रात्रौ निद्रावान् पल्लवशयनमध्यष्ठादित्युक्तम् । तस्य नियमपूर्व सुप्तवतः प्रभातमभूदिति कथयति । वेलामूले पारसमीपे । प्राकृते पुंलिङ्गनपुंसकयोराकारान्तस्य पदस्य सप्तम्या एकवचने मित्वमेत्वं वा रूपम् । चारुसमीरणरमणे रमयतीति रमणम् । '२८९६ । नन्दि - | ३|१|१३४ |' इत्यादिना ल्युः । समीरणेन रमणम् । चारु च तत्समीरणरमणं चेति । तत्र विभावरी रात्रिः" परिहीणा क्षीणा । हरिणकलङ्कस्य याः किरणावल्यः ताभिः सविलासा सविभ्रमा । भतश्राबद्धो रामस्य मोहो मूर्च्छा ययेति । 'कृदिकारादक्तिनः' इत्यनेन भवलिरावलीत्युभयमपि संस्कृतप्राकृतयोः प्रयुज्यते ॥
१०२० - बद्धो वासर - सङ्के
भीमो रामेण लवण -सलिलाऽऽवासे ॥ सहसा संरम्भ- रसो
दूराssरूढ - रवि- मण्डल - समो लोले ॥ २ ॥
•
i
बस इत्यादि - नियमास्थिते ऽपि मयि नासौ समुद्र उत्थित इति । वासरसके प्रभातकाले रामेण लवणसलिलावासे समुद्रे इति विषयसप्तमी । सहसा तत्क्षणं संरम्भरसः क्रोधरसो वीराख्यः भीमो दुःप्रेक्ष्यः बद्धो जनितः । दूरारूढरविमण्डलसमो लोक इति । दूरमारूढो मध्याह्नस्थो यो रविः तस्य मण्डलं तेन समस्तुल्यो ऽतितीक्ष्णत्वात् । लोले चञ्चले समुद्रे प्रभातवातेन क्षोभ्यमाणत्वात् ॥
१०२१ - गाढ - गुरु-पुङ्ख- पीडा
स धूम - सलिलाऽरि-संभव - महा-वाणे ॥ आरूढा संदेहं
रामे स-मही धरा मही स- फणि-सभा ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com