________________
३३२ भट्टि-काव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे तृतीयो वर्गः,
दत्त इत्यादि-खदोषैरविवेकित्वादिभिर्भवता पादप्रहारः यो मम धर्म्य धर्मादनपेते मार्गे स्थितस्य दत्तः, स मन्त्रिमुख्यरेतैः सह चिन्तनीयः । आवयो. मध्ये कस लाघवमादधातु करोत्विति । यावन्निरूप्यमाणस्तवैवेति भावः ॥ १०१७-इति वचनमसौ रजनि-चर-पतिं
बहु-गुणमसकृत् प्रसभमभिदधत् ॥ निरगमद-भयः पुरुष-रिपु-पुरान्
नर-पति-चरणौ नवितुमरि-नुतो. ॥ ८६ ॥ इतीत्यादि-इत्येवं वचनं बहुगुणम् अर्थावगाढत्वात् असकृत् बहुत्वात् प्रसभम् आहत्य रजनिचरपतिमभिदधत् ब्रुवन् । '४२७। नाभ्यस्ताच्छतुः । DI७' इति नुम्प्रतिषेधः । रजनिचर इति १००१ । ड्यापोः संज्ञाच्छन्दसोर्बहुलम् ।।३।६३॥' संज्ञायां ह्रस्वत्वम् । पुरुषरिपुपुरालङ्कातः निरगमत् निष्कान्तः । अभयः सन् नरपतिचरणौ रामस्य पादौ अरिभिरपि नुतौ शूरत्वात् । '२३०॥ युकः-७।२।११।' इतीदप्रतिषेधः । नवितुं प्रणामपूर्वक स्तोतुम् । अनेकार्थत्वाद्धातूनां नन्तुमित्यर्थः ॥ १०१८-अथ तमुपगतं विदित-सुचरितं
पवन-सुत-गिरा गिरि-गुरुहृदयः॥ नृ-पतिरमदयन् मुदित-परिजनं
स्व-पुर-पति-करैः सलिल-समुदयैः ॥ ८७ ॥ इति भट्टिकाव्ये प्रसन्न-काण्डे भाविकत्वप्रदर्शनस्
तृतीयः ॥ काव्यस्य द्वादशः सर्गः ॥ अथेत्यादि-अथ अनन्तरं विभीषणमुपेतं सेतुबन्धचिन्ताकाले राममु. पगतवानिति द्रष्टव्यम् । अन्यथा वक्ष्यमाणप्रभातकथनं विरुध्येत । पवनसुतगिरा हनुमद्वचनेन सचरितो ध्यमिति विदितं सुचरितं येन नृपतिः रामः गिरिगुरुहृदयः गिरिवत् गुरु अप्रकम्पं हृदयं यस्य । सलिलसमुदयः जलपूर्णघटे स्थितैः स्वपुरपतिकरैः । लङ्काधिपतिं कुर्वन्तीति हेतौ टः । अमदयत् हर्षितवान् । ४१५। मदी हर्षे' इत्यस्य हेतुमण्ण्यन्तस्य घटादित्वान्मित्वे इस्खत्वम् । मुदित. परिजनं खामी लाधिपत्ये ऽभिषिच्यत इति तस्य हृष्टा अनुजीवन इत्यर्थः । इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्य तृतीये प्रसन-काण्डे लक्षण-रूपे तृतीयः परिच्छेदः (वर्गः), तथा लक्ष्यरूपे कथानके 'विमीषणाऽगमनो' नाम
द्वादशः सर्गः॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com