________________
तथा लक्ष्य रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः - ३३१
तत इत्यादि - ततः पाणिप्रहारादनन्तरं स विभीषणः कोपं क्षमया शान्त्या निगृह्णन् अभिभवन्, तथा धैर्येण मन्युं शोकं, विनयेन गर्ने, मोहं वैचित्यं धिया प्रज्ञया, उत्साहवशादशक्तिमसामर्थ्यं निगृह्णन् अपमानेन कोपादीनां संभवात् । चतुर्भिः सचिवैरमात्यैः समं सार्धमुदस्थात् आसनादुत्थितः ॥ १०१३ - उवाच चैनं क्षणदाचरेन्द्र
'सुखं महा - राज ! विना मया ssस्स्व ॥ मूर्खाऽऽतुरः पथ्य-कटून॑नश्नन्
यत् साऽऽमयोऽसौ, भिषजां न दोषः ॥ ८२ ॥
1
उवाचेत्यादि - उत्थितश्चानन्तरं रावणमुवाच - हे महाराज ! मया बिना 'सुखमास्स्व तिष्ठ । अस्तेर्लोट् । तवात्र दोषो न ममोपदेष्टुः । यस्मान्मूर्खातुरः मूर्खो य आतुरः पथ्यकटूननश्नन् अभक्षयन् यत्सामयः रोगवान् असौ भिषजां वैद्यानां न दोषः, किंतु तस्यैव ॥
१०१४ - करोति वैरं स्फुटर्मुच्यमानः, प्रतुष्यति श्रोत्र - सुखैर -पथ्यैः ॥ विवेक - शून्यः प्रभुर्रात्म-मानी,
महानर्थः सुहृदां बता ऽयम्. ॥ ८३ ॥
करोतीत्यादि - प्रभुर्विवेकशून्यो निर्विवेकः । आत्ममानी मत्समो ऽन्यो नास्तीति आत्मानं श्लाघमानः । आत्ममाने इतिः । स्फुटमुच्यमानो वैरं करोति स्नेहं करोति पथ्यमनेनोक्तमिति । श्रोत्रसुखैः तदर्थमनोहारिभिः अपथ्यैस्तुष्यति । तस्मादयं प्रभुः सुहृदामाश्रितानां महान् अनर्थः । अनर्थ हेतुत्वात् । बतशब्दः खेदे ॥ १०१५ - क्रीडन् भुजङ्गेन गृहाऽनुपातं
कश्चिद् यथा जीवति संशय-स्थः, ॥ संसेवमानो नृपतिं प्रमूढं
तथैव यज् जीवति, सो ऽस्य लाभः ॥ ८४ ॥
क्रीडन्नित्यादि - यथा कश्चित् सर्पग्राही गृहानुपातं गृहं गृहमनुपत्य । : ५३३७८ । विशि-पति- |३|४|५६ |' इत्यादिना णमुल् । भुजङ्गेन सह क्रीडन् जीवति संशयस्थः संदेहे वर्तमानः किमयं खादिष्यति न वेति । तथैव प्रमूढं मूर्खमत्रिपति संसेवमानो यज्जीवति सो ऽस्य लाभः । भास्तामन्यो लाभ इति ॥ १०१६ - दत्तः स्व - दोषैर् भवता प्रहारः
I
पादेन धर्म्ये पथि मे स्थितस्य ॥
स चिन्तनीयः सह मन्त्रि -मुख्यैः कस्या ऽऽवयोर् लाघवमा॑दधातु ॥ ८५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com