________________
३२८ भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः,
संदृश्यते शक्र पुरोहितो ऽह्नि, क्ष्मां कम्पयन्त्यो निपतन्ति चौल्काः ॥ ७१ ॥
मार्गमित्यादि - अगस्तिना यदध्यासितं विन्ध्यशृङ्गं तन्मार्गे भृगूणां गोत्रगुरुः शुक्रो गतः दक्षिणमार्गचारी शुक्र इत्यर्थः । शक्रपुरोहितोऽपि बृहस्पतिः अह्नि दिवसे संदृश्यते । उल्काश्च क्ष्मां पृथिवीं कम्पयन्त्यः निपतन्ति ॥
7
१००३ - मांसं हतानामिव राक्षसानामाशंसवः क्रूर- गिरो रुवन्तः ॥ क्रव्याशिनो दीघ - कृशानु-वक्रा भ्राम्यन्त्य-भीताः परितः पुरं नः ॥ ७२ ॥
:
मांसमित्यादि - राक्षसानां हतानामिव मांसमाशंसवः आशंसनशीलाः '३१४८। सनाशंसभिक्ष उः | ३ |२| १६८|' मांसभुजः शृगालादयः क्रूरगिरः परु पस्वनाः कृशानुवक्त्राः ज्वलनसदृशवदनाः निर्भयाः परितो भ्रमन्ति ॥ १००४ - पयो घटोनीर॑पि गा दुहन्ति
मन्दं विवर्ण विरसं च गोपाः, ॥ हव्येषु कीटोपजनः स केशो
न दीप्यते ऽग्निः सु-समिन्धनो ऽपि ॥ ७३ ॥
पय इत्यादि - गोपाः पयः क्षीरं विवर्ण दुर्वर्ण विरसं अस्वादु मन्दं अल्पं पयस्विनीरपि दुहन्ति । '५३९ | अकथितं च | १|४|५१ | ' इति द्विकर्मकता । तथा शोभनेन्धनो ऽप्यग्निर्न दीप्यते, हव्येषु हवनीयेषु घृतादिषु सत्सु । '२०४२ ॥ अचो यत् | ३|१|९७|' उपजननमुपजनः । भावे घन् । '२५१२। जनिवध्योश्व |७|३|३५|' इति न वृद्धिः । कीटानामुपजनोऽस्येति कीटोपजनः । सहकेशैः सकेशः दह्यमानकीटकेश इत्यर्थः ॥
१००५ - तस्मात् कुरु त्वं प्रतिकारम॑स्मिन्
स्नेहान् मया रावण ! भाष्यमाणः, ॥ वदन्ति दुःखं ह्यनुजीवि वृत्ते
स्थिताः पदस्थं परिणाम-पथ्यम् ॥ ७४ ॥
तस्मादित्यादि - यस्मादेवं विनाशसूचकानि निमित्तानि दृश्यन्ते, तस्मात् हे रावण ! स्नेहान्मया त्वं भाष्यमाणः अस्मिन् वस्तुनि प्रतीकारं सीताप्रत्यर्पणेनैव सन्धानं कुरु । '१०४४ । उपसर्गस्य घम् - | ६|३|१२२|' इति बहुलं दीर्घः । कस्मादेवं भाष्यत इति चेत्। यस्मादनुजीविवृत्ते ऽवस्थिताः यद्वचनं दुःखं
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com