________________
तथा लक्ष्य रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः - ३२९
दुःखहेतु तदा कटुकत्वात् । परिणामपथ्यम् आयत्यां हितं तत्पदस्थं स्वामिपढ़े स्थितं वदन्ति ॥
१००६ - विरुग्ण-संकीर्ण - विपन्न- भिन्नैः प्रक्षुण्ण-संहीण - शिताsस्त्र - वृक्णैः ॥ यावन् नराऽशैर् न रिपुः शवाऽशान् संतर्पयत्यनम तावदस्मै.' ॥ ७५ ॥
I
विरुग्णेत्यादि -- यावद्विपुः नराशैः राक्षसैः शवाशान् गृधशृगालादीन् शवमश्नन्ति इति कर्मण्यण् । न संतर्पयति न प्रीणयति तावदस्य रिपोः आनम चरणावित्यर्थात् । कीदृशैः । विरुग्णैर्भिन्नाङ्गैः । ' ३०१९ | ओदितश्च |८|२|४५ ' इति निष्ठानत्वम् । संकीर्णैः इतस्ततो विक्षिप्तैः, विपन्नैर्मृतैर्भिन्नैर्विदारितदेहैः, प्रक्षुण्णैः । एभ्यो '३०१६। रदाभ्याम् |८|२|४२ | ' इति नत्वम् । संहीणैर्लजितैः वयमेवमवस्थां नीता इति । शितेन तीक्ष्णेन अस्त्रेण वृक्णैः छिनैः । ‘२४१२ । ग्रहि-ज्या – |६|१| १६ | ' इत्यादिना सम्प्रसारणम् । संयोगादिलोपः । कुत्वं च । ओदित्वान्नत्वम् ॥
१००७ - भ्रूभङ्गमाधाय विहाय धैर्य
विभीषणं भीषण - रूक्ष-चक्षुः ॥ गिरं जगादग्र- पदामु॑दग्रः
स्वं स्फावयन् शक्र- रिपुः प्रभावम्. ॥ ७६ ॥ भ्रूभङ्गमित्यादि - शक्ररिपुर्दशाननः विभीषणवचनात् कुद्धः । भूभ भ्रुकुटिमाधाय आबय धैर्यं विहाय त्यक्त्वा भीषणरूक्षचक्षुः भयानकपरुषचक्षुः । उदग्रः उन्नामितदेहः स्वं प्रभावं विक्रमं स्फावयन् वर्धयन् । '२५९७ स्फायो वः ।७।३।४१।' इति णौ वत्वम् । विभीषणं जगाद गिरं वाचम् । उग्रपदां सुप्तिङन्तानां स्वरूपतो ऽर्थतश्च परुषत्वात् ॥ १००८ - "शिला तरिष्यत्युर्दके न पर्णं,
ध्वान्तं रवेः स्यन्त्स्यति, वह्निरिंन्दोः, ॥ जेता परो ऽहं युधि जेष्यमाणस् तुल्यानि मन्यस्व पुलस्त्य - नप्तः ! ॥ ७७ ॥
शिलेत्यादि - उदके शिला तरिष्यति न पुनः पर्णम् । रवेः सूर्यात् ध्वान्तमन्धकारं स्यन्त्स्यति स्वविष्यति । '८१४ । स्यन्दू प्रस्त्रवणे' इत्यस्मात् '२३४८| न वृत्र्यश्चतुर्भ्यः | ७|२|५९ |' इतीट् न भवति । '१२१ | खरि च |८|४|५५॥ ' इति चम् । तथा वह्निरिन्दोः स्यन्त्स्यति । अहमप्येष पर उत्कृष्टः जेता युधि संग्रामे जेष्यमाण इत्येतानि चत्वारि हे पुलस्त्यनप्तः विभीषण ! तुल्यानि
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com