________________
तथा लक्ष्य-रूपे कथानके 'विभीषणागमनों' नाम द्वादशः सर्गः-३२७ इत्थमनेन प्रकारेण कृतार्थस्य लब्धजन्मफलस्य मम यदि त्वदर्थे मृत्युरवश्यं सात, तदा किं न लब्धम् । सर्वमेव जन्मफलं लब्धमित्यर्थः ॥
तव पुनरद्यापि विभीषणोक्तं युक्तं, न प्रहस्तमुखोक्तमिति दर्शयन्नाह- ९९९-किं दुर्नयैस् त्वय्युदितैर मृषाऽथैर्
वीर्येण वक्ता ऽस्मि रणे समाधिम्.॥' तस्मिन् प्रसुप्ते पुनरित्थमुक्त्वा
विभीषणो ऽभाषत राक्षसेन्द्रम्. ॥ ६८॥ किं दुर्नयैरित्यादि-त्वय्यपि स्थिते 'किं चौरधो ऽस्तु' इत्यादिना यान्यु. दितान्ययुक्तानि अलीकार्थानि तैर्दुनयैः किम् । न किंचित् फलम् । कस्मादिति चेत् यस्मात्तेषां समाधि प्रतीकारं संग्रामे रामसंबन्धिना वीर्येण वक्तासि वदिवाहम् । रामवीर्यप्रतीकाराद्धीत्यर्थः । इत्थमेवं तस्मिन् कुम्भकर्णे उक्त्वा पुनः भूयः प्रसुले सति विभीषणो राक्षसेन्द्रमभाषत ॥ १०००- निमित्त-शून्यैः स्थगिता रजोभिर्
दिशो, मरुद्भिर् विकृतैर् विलोलैः॥ स्वभाव-हीनैर् मृग-पक्षि-घोषैः
कन्दन्ति भर्तारमिवा ऽभिपन्नम् ॥ ६९ ॥ निमित्तशून्यरित्यादि-जोमिनिमित्तशून्यैः निनिमित्तैः दिशः स्थगिताः संछादिताः। 'स्थग संवरणे' । मरुद्भिश्च विकृतैः परुषैर्विलोलैरनियतदिग्वतिभिः स्थगिताः। मृगपक्षिणां च घोषैः स्वभावहीनभ्रष्टैर्भारमिवाभिपनं मृतं शोकात् कन्दन्ति ॥ १००१-उत्पात-जं छिद्रमसौ विवस्वान्
व्यादाय वक्राऽऽकृति लोक-भीष्मम् ॥ अत्तुं जनान् धूसर-रश्मि-राशिः
सिंहो यथा कीर्ण-सटो ऽभ्युदेति. ॥ ७० ॥ उत्पातजमित्यादि-असौ विवस्वान् छिद्रम् उत्पातजं वक्राकृति लोक. भीष्मं लोकस्य भयानकं व्यादाय प्रसार्य । व्यापूर्वस्य ददातेः क्वो ल्यपि रूपम् । जनानत्तुं भक्षयितुं धूसररश्मिराशिः सन् अभ्युदेति उद्गच्छति । यथा सिंहः कीर्णसटः विक्षिप्तकेसरकलापः मुखं व्यादायात्तुमुत्तिष्ठति तद्वदिति ॥ १००२-मार्ग गतो गोत्र-गुरुर् भृगूणा
मंगस्तिना ऽध्यासित-विन्ध्य-शृङ्गम् , ॥
अत्यरित्यादि मरुद्धिन
विभाग
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com