________________
३२४ भट्टि-काव्ये-तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः,
ब्रह्मेत्यादि-सदेवैब्रह्मादिभिः संतापितैः रात्रिचरक्षयाय नूनमयं राम उपायो विहितः उत्पादितः । नराकृतिः आकृत्यैव केवलं नरः। वानरसैन्यशाली आन्यः । अजय्यो जेतुमशक्यः ॥ दृष्टश्चैवं प्रकारो देवानां मयेति दर्शयन्नाह९८९-वज्राऽभिघातैर-विरुग्ण-मूर्तेः
फेणैर् जलानामसुरस्य मूर्ध्नः॥ चकार भेदं मृदुभिर् महेन्द्रो
यथा, तथैतत् किमपीति बोध्यम्. ॥ ५८ ॥ वज्राभिघातैरित्यादि-असुरस्य नमुचेः वज्राभिघातैरपि भविरुग्णमूर्तेः अचूर्णितशरीरस्य संबन्धिनो मूों जलफेणैर्मृदुभिः भेदं चकार यथा तथेदमपि शमे स्थितानामपि देवानां नराकृति वस्तु किमपीति बोद्धव्यम् ॥ अन्यथा कथं फेणपिण्डैर्विनाश इत्याह९९०-व स्त्री-विषह्याः करजाः, क वक्षो
दैत्यस्य शैलेन्द्र-शिला-विशालम् , ॥ संपश्यतैतद् धुसदां सुनीतं,
बिभेद तैस् तन् नर-सिंह-मूर्तिः ॥ ५९॥ क्वेत्यादि-स्त्रीविषयाः स्त्रीभिः सोढुं शक्याः करजा नखाः क। दैत्यस्य हिरण्यकशिपोः शैलेन्द्रशिलाविशालं वक्षः च च । वक्षःकरजयोरपि दूरमन्तरं, तथापि धुसदां देवानां एतत्सुनीतं सुनयं संपश्यत । यत् तैनखैनरसिंहमूर्तिः तद्वक्षो बिभेद ॥ यत्रैवमुपायेन देवैर्निहन्यते तन्न त्वं कथं प्रमादी मुह्यसीत्याह९९१-प्रमाद-वांस् त्वं क्षत-धर्म-वमा
गतो मुनीनामपि शत्रु-भावम् , ॥ कुलस्य शान्ति बहु मन्यसे चेत्
कुरुष्व राजेन्द्र ! विभीषणोक्तम्.' ॥६॥ प्रमादवानित्यादि-त्वं यतः प्रमादी अजितेन्द्रियत्वात् । क्षतधर्मवा खकाचारः । अतो मुनीनामपि शमे स्थितानां शत्रुत्वं गतः । ईदृशो ऽपि कुलस्य शान्ति बहु मन्यसे चेत् श्लाघसे यदि । हे राजेन्द्र ! कुरुष्व विभीषणोकम् ॥ ९९२-घोषेण तेन प्रतिलब्ध-संज्ञो
निद्राऽऽविलाऽक्षः श्रुत-कार्य-सारः॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com