________________
तथा लक्ष्य-रूपे कथानके 'विभीषणागमनों' नाम द्वादशः सर्गः-३२३
अत एव तत्स्थो जनो नाभिरक्ष्यः । एवं च सति परेषां किं दुःस्थं इत्याचक्ष्व कथय । अतो रामेण ज्यायसा संधिरेवास्तु न विग्रह इति ॥ तदेव दर्शयबाह९८५-संधानमैवा ऽस्तु परेण तस्मान् ,
नाऽन्यो ऽभ्युपायो ऽस्ति निरूप्यमाणः, ॥ नूनं वि-संधौ त्वयि सर्वमैतन्
नेष्यन्ति नाशं कपयो ऽचिरेण.' ॥५४॥ संधानमित्यादि-तस्मात्परेण संधिरेवास्तु । अन्य उपायो नास्ति । अन्यथा स्वयि विरुद्धबुद्धौ सर्व कपयो विनाशयिष्यन्तीति ॥ ९८६-विभीषणोक्तं बहु मन्यमानः
प्रोन्नम्य देहं परिणाम-नम्रम् ॥ स्खलद्-वलिर् वार्धक-कम्प्र-मूर्धा
मातामहो रावणमित्युवाच. ॥ ५५ ॥ विभीषणोक्तमित्यादि-बहु मन्यमानः श्लाघमानो मातामहो मातुः पिता माल्यवान्नाम । देहं परिणामननं वयसः परिणामानमनशीलं प्रोम्योरिक्षप्य । अत एव स्खलद्वलिः । वार्धकेन वृद्धभावेन । मनोज्ञादित्वात् वुन् । कम्पः कम्पनशीलो मूर्धा यस्य सः । रावणमिति वक्ष्यमाणमुवाच ॥ ९८७-'एकः पदातिः पुरुषो धनुष्मान्
यो ऽनेक-मायानि वियद्-गतानि ॥ रक्षः-सहस्राणि चतुर्दशा ऽऽर्दीत्,
का तत्र वो मानुष-मात्र-शङ्का. ॥ ५६ ॥ एक इत्यादि-एकः भसहायः पदातिः न हस्त्याचारूढः पुरुषो मनुष्यः । धनुष्मान् धनुर्मात्रायुधः। चतुर्दश रक्षःसहस्त्राणि अनेकमायानि वियद्तानि प्रयातुमशक्यानि । परेषामित्यर्थात् । आर्दीत् हिंसितवान् । का तन्त्र वः युष्माकं मानुषमाशङ्का, नैवेत्यर्थः॥ किंतु दिव्यो ऽसाविति तदेव दर्शयबाह९८८-ब्रह्मर्षिभिर् नूनमयं स-देवैः
संतापितै रात्रिचर-क्षयाय ॥ नराऽऽकृतिर् वानर-सैन्यशाली
जगत्य-जय्यो विहितो ऽभ्युपायः ॥ ५७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com