________________
तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः - ३२५
स्फुरद्-धनः सा॒ऽम्बुरि॑वा ऽन्तरीक्षे वाक्यं ततो ऽभाषत कुम्भकर्णः ॥ ६१ ॥
घोषेणेत्यादि - प्रहस्तविभीषण मातामहानां वदतां यो घोषः तेन प्रतिलधसंज्ञो विबुद्धः कुम्भकर्णो निद्राविलाक्षः निद्रया कषायितचक्षुः श्रुतकार्यसारः श्रुतकार्यशरीरः । ततः कार्यसारश्रवणानन्तरं वाक्यमभाषत । यथा घनः साम्बुः सजलोऽन्तरीक्षे वियति स्फूर्जति तद्वत् स्फूर्जनिति ॥
कार्य निश्चित्य सदसि भाषणानि न पञ्चाङ्गमन्त्रं विनेति साङ्गं तं तावदुपदर्शयन्नाह -
९९३ - 'क्रिया - समारम्भ-गतो ऽभ्युपायो, नृ-द्रव्य-सम्पत् सह- देश - कला, ॥ विपत् प्रतीकार- युता ऽर्ध-सिद्धिर् मन्त्रऽङ्गमे॑तानि वदन्ति पञ्च ॥ ६२ ॥
क्रियेत्यादि - क्रियाणां दुर्गादिकर्मणां यः समारम्भस्तं गतः प्राप्तो योSभ्युपायः कर्मणामारम्भोपाय इत्यर्थः । इदमेकमङ्गम् । नृद्रव्यसम्पत् पुरुषाणां द्रव्याणां च सम्पदिति द्वितीयम् । द्वयोस्सहवचनं योगवाहित्वज्ञापनार्थम् । सहदेशकालेति । यस्मिन् देशे काले च कार्यसिद्धिस्ताभ्यां सह वर्तत इति तृतीयम् । अत्रापि सहवचनं योगादेव । कर्मणामनुष्ठीयमानानां या विपत्तस्याः प्रतीकारस्तेन युक्तेति चतुर्थम् । अर्थसिद्धिः कार्यसिद्धिरिति पञ्चमम् । एतानि पञ्च मन्त्रस्याङ्गानि वदन्ति नीतिज्ञाः ॥
९९४ - न निश्चिताऽर्थं समयं च देशं
क्रियाऽभ्युपायाssदिषु यो ऽतियायात् ॥
"
स प्राप्नुयान् मन्त्र - फलं न मानी काले विपन्ने क्षणदाचरेन्द्र ! ॥ ६३ ॥
नेत्यादि - विनिश्वितार्थो ऽवश्यं सिध्यतीति यस्मिन् समये काले देशे च कार्यसिद्धिः तादृशं समयं देशं च यो विजिगीषुर्नातियायात् नातिक्रामेत् । प्रतिषेध्यस्य द्वित्वात् प्रतिषेधद्वयं योज्यम् । समयं च देशमिति पाठान्तरे समुच्चयेनैक एव योज्यः । क्रियाभ्युपायादिषु सत्सु, आदिशब्दात् पुरुषद्रव्यसंपद्विपत्प्रतीकारे च स प्राप्नुयान्मन्त्रफलम् । हे क्षणदाचरेन्द्र ! न पुनर्मानी भवादृशः काले विपन्ने प्राप्नोति । स हि देशकालौ हापयति ॥
९९५ - औष्ण्यं त्यजेन् मध्य-गतो ऽपि भानुः, शैत्यं निशायामथवा हिमांशुः ॥
भ० का० २८
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com