________________
तथा लक्ष्य-रूपे कथानके 'विभीषणागमनों' नाम द्वादशः सर्गः-३२१ अन्यच्च वालिवध एव तस्यार्थसम्पजयायेति दर्शयन्नाह९७८-त्वन-मित्र-नाशो, निज-मित्र-लाभः,
समेत-सैन्यः स च मित्र-कृच्छे । भोग्यो वशः पश्य शरेण शत्रोः
प्रसाधितो वालि-वधे न को ऽर्थः ॥४७॥ त्वन्मित्रेत्यादि-वालिवधे सति शरेण रामस्य को अर्थो न प्रसाधितः, अपि तु सर्व एव पश्य । तथाहि । त्वन्मित्रनाशः तस्य च मित्रलाभः मित्रं च तल्लाभश्चेति । समेतसैन्यः कृच्छ्रे संकटप्राप्तौ भूतभोग्यः उपजीव्यः । वशोऽनुकूल इति ॥ तं विभिद्य साधयिष्यामीति चेदाह९७९-लोभाद् भयाद् वा ऽभिगतः कपीन्द्रो
न राघवं, येन भवेद् विभेद्यः, ॥ स्थितः सतां वर्मनि लब्ध-राज्यः
प्रति-प्रियं सो ऽभ्यगमच् चिकीर्षुः ॥४८॥ लोभादित्यादि-क्रुद्धलुब्धभीतावमानिताश्चत्वारो भृत्याः परस्य भेद्याः । तत्र कपीन्द्रो राघवं लोभाद्भयाद्वा त्रासाद्वा नाभिगतः। येन हेतुना ऽयं विभेद्यः स्यात् । यस्मादसौ सतां मार्ग स्थितः सन् लब्धराज्यो लाभरतः प्रतिप्रियं चिकीर्षुः॥ तदनुजीविनो ऽपि न भेया इति दर्शयति९८०-फलाशिनो निर्झर-कुञ्ज-भाजो
दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः॥ न्यग-जातयो रत्न-वरैरलभ्या
मुख्याः कपीनामपि नोपजप्याः ॥४९॥ फलाशिन इत्यादि-कपीनामपि मुख्या नीलकुमुदादयो ऽपि नोपजप्याः नोपजपितुं शक्याः । यतः फलाशिनो मिष्टाननिरपेक्षाः। निर्झरकुञ्जभाजः न रम्यप्रासादवासिनः । दिव्याङ्गनानगरसानभिज्ञाः दिव्याङ्गनासु योऽनङ्गरसः सुरतरसः तदनभिज्ञाः । न्यग्जातयः न्यञ्चन्तीति '३७६। ऋत्विग-१३।२।५९।' इत्यादिना किन् । युष्मन्मित्रपुत्रो ऽङ्गदो ऽप्यभेद्य इति दर्शयबाह९८१-कृताऽभिषेको युवराज-राज्ये
सुग्रीव-राजेन सुताऽविशेषम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com