SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३२० भट्टिकाव्ये - तृतीये प्रसन्न -काण्डे लक्षण-रूपे तृतीयो वर्गः, अन्यद्विजयफलमस्तीति चेदाह - ९७५ - क्लिष्टाऽऽत्म भृत्यः परिमृग्य-सम्पन् मानी यतेता ऽपि स-संशये ऽर्थे ॥ संदेहमा॑रोहति यः कृता॒ऽर्थो, नूनं रतिं तस्य करोति न श्रीः ॥ ४४ ॥ क्लिष्टेत्यादि - यो मानी किष्टात्मभृत्यः चिरकालक्लिष्टशरीरः क्लिष्टभृत्यश्च । परिमृग्यसम्पत् प्रार्थनीया विभूतिर्येन । मृगयतेः स्वार्थिकण्यन्तादचो यत् । संशये ऽर्थे स्थान स्यादिति यतेतापि यत्नं कुर्यात् । यः कृतार्थो भवादृशः त्रैलोक्यविजयित्वात् संदेहमारोहति संदेहे प्रवर्तते, तस्य नूनमवश्यं श्रीर्विभूतिः रतिं स्थिति न करोति ॥ कदा तर्हि विग्रह इत्याह ९७६ - शक्यान्य- दोषाणि महा - फलानि समारभेत पनयन् समाप्तिम् ॥ कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद् वितथः प्रयासः ॥ ४५ ॥ शक्यानीत्यादि - शक्यानि यानि कर्तुं पार्यन्ते । अदोषाणि शुद्धानि महाफलानि कार्याणि राजा समारभेत विग्रहेणेत्यर्थात् । उपनयनसमाप्तिं नयनू । विहितानुरागो ऽनुरक्तकृतिः । विपर्यये उक्तस्य । अशक्यानि दोषाधिart स्वल्पफलानि राजा समारभेत समाप्तिं च न नयति स वितथः प्रयासः निष्फलो विग्रहः ॥ ममापि रामविग्रहेण सर्वमस्तीति चेदाह - ९७७ - जेतुं न शक्यो नृपतिः सु-नीतिर् दोषः क्षयाऽऽदिः कलहे ध्रुवशू, च ॥ फलं न किंचिन् न शुभा समाधिः, कृतानुरागं भुवि संत्यजा ऽरिम् ॥ ४६ ॥ जेतुमित्यादि - नृपती रामः जेतुं न शक्यः विग्रहेण । उत्साहशक्तियुकत्वात् । तेन सह कलहे दोषः क्षयादिः ध्रुवो ऽवश्यंभावी । विग्रहे वा सति क्षयव्ययप्रयासप्रत्यवाया भवन्तीत्युक्तम् । फलं न किंचित् । न शुभा समाप्तिः स्वबन्धुविनाशहेतुत्वात् । अतो योद्धुमरिं ज्यायांसं संत्यज । भुवि कृतानुरागं त्वं पुनरकृतानुराग इति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy