________________
तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः-३१९
सामाऽम्भसा शान्ति पैतु राजन्!
प्रसीद, जीवाम स-बन्धु-भृत्याः ॥४१॥ संधुक्षितमित्यादि-क्षितिपालतेजः सीतावियोगजम् । इन्द्रादिमण्डलैश्वण्डवातैरिव संधुक्षितं दीपितम् । अमर्षतीक्ष्णं असहिष्णुतयासझम् । सामाम्भसा साम्रा संधिना अम्भसेव शान्तिमुपैतु । हे राजन् ! प्रसीद किं संरम्भेण? अन्यथा तमारण्यो ऽग्निरिव दुःखामर्षजं तेजो विक्रमयतीति ।
समानयोरपि संधानमेव युज्यते न विग्रहः किं पुनायसीत्यत्र हेतुं दर्शयमाह९७३-अ-पक्क-कुम्भाविव भङ्ग-भाजौ
राजनियातां मरणं समानौ, ॥ वीर्य स्थितः किंतु कृताऽनुरागो
रामो भवांश् चोत्तम-भूरि-वैरी. ॥ ४२ ॥ अपक्केत्यादि-हे राजन् ! यथा कुम्भावपकौ भनभाजौ परस्परामिहतो विनश्यतः । तद्वत् समानौ युध्यमानौ मरणमियाताम् । सार्वधातुकयकारत्वादिणो न दीर्घत्वम् । राजन्नियातामिति १३४। डमो ह्रस्वादचि डमुद-1८।३।३२।' किंतु रामो वीर्ये स्थितः । उत्साहशक्तियुक्त इत्यर्थः । विक्रमबलं चोत्साहशक्तिः । कृतानुरागश्च भनुरक्तमण्डलस्वात् । भवान् पुनः उत्तमभूरिवैरी । उत्तमा इन्द्रादयो भूरयः प्रभूता वैरिणः शत्रवो यस्य । अतस्तेन संधानमेव युक्तं न विग्रहः । ननु च समज्यायोभ्यां संधीयेत हीनेनैव विगृह्णीयात् । मन्त्रप्रभावोत्साहशक्तिभिर्युक्तो ज्यायान् । अपचितो हीनः । तुल्यशक्तिः समः। तत्र ज्ञानबलं मघ्रशक्तिः । कोशदण्डबलं प्रभुशक्तिः । विक्रमबलं उत्साहशक्तिः ॥ सत्यामुत्साहशको शेषयोरभावान हीनेन विग्रह एव युज्यत इत्याह९७४-दण्डेन कोशेन च मन्यसे चेत्
प्रकृष्टमात्मानमरेस् तथापि ॥ रिक्तस्य पूर्णेन वृथा विनाशः
पूर्णस्य भङ्गे बहु हीयते तु. ॥ ४३ ॥ दण्डेनेत्यादि-दण्डेन चतुरजेन बलेन, कोशेन हेमरूप्यादिना यदि प्रकृष्टमात्मानमरेः सकाशान्मन्यसे, तथाप्येवमपि न युक्तं यतो रिकस्स पूर्णेन भवता विनाशो भगः वृथा निष्फलः । पूर्णस्य पुनर्भवतो भने बहु हीयत
इति हीनेन बलवतो ऽपि संधानं युकम् । रिकस भको मा ऽभूत् ।। Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com