________________
भट्टिकाव्ये - प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे प्रथमो वर्गः,
अभूदित्यादि - तस्य हीष्टदेवता सनातनो विष्णुः । स चादौ कीर्तितः । तत्प्रतिबन्धना चेयं कथेति प्रबन्धेनैवात्र संकीर्तनं रामायणवत् । तत्र विष्णोर्यसिन्काले जगत्कार्यवशादवतारः कृतस्तदेव प्रथमं दर्शयति । अभूदिति भूतसामान्ये लुङ् । भूत इत्यर्थः । अन्यथा राज्ञश्चिरातीतत्वात्कवेः परोक्षत्वाच्च लिहू स्यात् । ‘२२२३। गाति-स्था- | २|४|७७ । ' इति सिचो लुक् । '२२२४। भू-सुवोस्तिङि |७|३|८८|' इति गुणप्रतिषेधः ॥ 'नयतेर्डिच्च' इति नयतेरौणादिक ऋन् । नरो मनुष्यास्तान्नुम्पातीति । '२९१५ । अतोऽनुपसर्गे कः ||३|२|३|' | '२३७२ | आतो लोपः | ६ |४| ६४।' नृपो राजा । अत्यन्तधर्मविजयित्वाद्देवराजस्य मित्रमासीदित्याह – विबुधसख इति । विबुध्यन्त इति विबुधा देवास्तेषामपि प्रधानत्वात् । तत्रेगुपधलक्षणः कः । सामान्यशब्दोऽपि देवेषु वर्तमानोऽप्यर्थवशाच्छक्रे प्रयुक्तस्तस्य सखेति । '७८८ । राजाऽहः सखिभ्यष्टच् |५|४|११|' विबुधसखः । अनेन धर्मविजयित्वं दर्शयति विबुधसखत्वस्य धर्मकार्यत्वात् । सुरलो. कविजयिनश्च ये राजानस्तेषां धर्मविजयी प्रधानम् । परे शत्रवस्त्रिविधाः -- उच्छेदनीयोपपीडनीयकर्षणीयाः । तत्र ये उपपीडनीयकर्षणीयास्तान्परांस्तापयतीति परंतपः । ‘२९५४ | द्विषत्परयोस्तापेः | ३ | २|३९|' इति खच् । '२९५५ खचि ह्रस्वः ।६।४।९४।' । '२९४२ | अरुर्द्विषदजन्तस्य - | ६ | ३ | ६७ |' इति मुम् । नृप इत्यनेन स्वमण्डले वृत्तिराख्याता । परंतप इति परमण्डले । श्रूयन्त इति श्रुतानि वेदादीनि तैरन्वितः संबद्धः । ग्रन्थतोऽर्थतश्च गृहीतत्वात् । दशरथ इत्यनेन नाम्नोदाहृतो लोके गीतः ॥ गुण्यन्तेऽभ्यस्यन्त इति गुणाः । ' २०४० । गुण आमन्त्रणे ।' इति चौरादिको दन्तः । तस्मात् '३१८८ | अकर्तरि च - | ३|३| १९।' इत्यादिना घञ् । येषाम् 'एरजण्यन्तानाम्' इति दर्शनम् । येषां तन्नास्ति तेषामेरच् । स्वरं प्रति विवादो न रूपं प्रति । गुणैरभिरामत्वादिमिर्वरं श्रेष्ठं यं नृपं पितरमुपागमदिति संबन्धः । ब्रियत इति वरः । ' ३२३४ | ग्रह-वृ-ड. | ३ | ३|५८|' इत्यादिना कर्मण्यप् । केन हेतुनोपगतवांस्तं पितरं सनातन इत्यत आह— भुवनहितच्छलेनेति । भवन्त्युत्पद्यन्त इति भुवनानि । भूर्भुवः स्वरिति त्रयो लोकाः । 'रजः क्युन्' इत्यनुवर्तमाने 'भू-स्-धू- सर्जिभ्यश्छन्दसि' इत्यौणादिकः क्युम्बहुलवचनाद्भाषायामपि भवति । तेभ्यो हिता भुवनहिता विष्णोर्दशावताराः । इह तु रामो द्रष्टव्यः । तच्छलेन व्याजेन भुवनहितच्छलेन । इदानीं रावणादि - कण्टकोद्धरणात् । तथा चोक्तम् ' परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥' इति । सनेत्यव्ययं सदार्थे वर्तते । सना भवतीति । '१३९१। सायं चिरम् ।४।३।२३|| इति व्युट्युलौ तु च । सनातनो विष्णुरुपागमदुपजगाम । लुदित्त्वादङ् । सत्स्वन्येषु राजसु गुणैर्वरत्वाद्यं पितरं जनकमङ्गीकृतवान्सोऽभूदिति योज्यम् । स्वयमित्यात्मना न कर्मणान्येन वा प्रेरित इत्यर्थः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com