________________
देवं नंदनंदनं वंदे । ओं नमः सिद्धम् ॥
अथ
श्रीभट्टि-काव्यं जयमङ्गलया समेतम्
प्रथमः सर्गःप्रणिपत्य सकलवेदिनमतिदुस्तरभट्टिकाव्यसलिलनिधेः॥ जयमङ्गलेति नाम्ना नौकेव विरच्यते टीका ॥ १ ॥ लक्ष्यं लक्षणं चोभयमेकत्र विदुषः प्रदर्शयितुं श्रीस्वामिसूनुः कविर्भटिनामा रामकथाश्रयमहाकाव्यं चकार । तथास्योपनिबन्धनं कविना द्विधा कृतम् । एकं लक्षणसूचकैः प्रकीर्णा-धिकार-प्रसन्न-तिङन्तकाण्डैश्चतुर्भिः । द्वितीयं लक्ष्यसूचकै रामसंभवादिभिविंशत्या सगैः । तत्र लक्षणं द्विविधम् । शब्दलक्षणं काव्यलक्षणं च । तत्र प्रथमस्य प्रकीर्णाधिकारतिङन्तकाण्डानि । द्वितीयस्य प्रसन्नकाण्डम् । यत्रोच्चावचेन बहूनां लक्षणानां प्रकरणं तत्प्रकीर्णकाण्डम् । तदेवात्र प्रथममुक्तं तस्य व्यापित्वात् 'उत्तरत्रापि द्रष्टव्यम्' इति प्रदर्शनार्थम् । अन्न यद्यप्यादौ कविना देवतानमस्कारो न कृतस्तथापीष्टदेवतासंकीर्तनमपि विघ्नोपशमनहेतुर्भवतीति मन्यमान आह
१-अभून नृपो विबुध-सखैः परं-तपः
श्रुताऽन्वितो दर्श-रथ इत्युदाहृतः, ॥ गुणैर् वरं भुवन-हितच्-छलेन यं सना-तनः पितरमुपागमत् खयम् ॥
१-'अभून्नपो दशरथ इत्युदाहृतः श्रुतान्वितो विबुधसखः परन्तपः ॥” इति पाठव्यत्यासोऽपि क्वचित् । २–७७७॥ अथ मित्रं सखा सुहृत् ।' इति नामलि. जानुशासनेऽमरसिंहः। ३-दशसु दिक्षु रथो रथ गतिर्यस्येति यथार्थनामेति भावः । ४-१४६। छे च ।६।१।७३। हस्वस्य छे परे तुगागमः स्यात्संहितायाम् । यथा-सदाशिव+छात्रः सदाशिवच्छात्रः ।। इति सिद्धान्तकौमुद्यां भट्टदीक्षितः । ५-पयेऽस्मिन्वृत्तं रुचिरा । तल्लक्षणम्'चतुर् (४)महै(९)रिह रुचिरा ज-भ-सू-जगाः।' इति वृत्तरत्नाकरे भट्टकेदारः।
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com