________________
तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः-३१५
आसीत राजा ऽवसर-प्रतीक्षस
तदा प्रयास वितथं न कुर्यात्. ॥ २९ ॥ यदेत्यादि-यदा हि राजा विजिगीषावस्थितः विगृह्णन् विग्रहं कुर्वन् आत्मनो ऽनुगुणामनुकूलां वृद्धिं न पश्येत् क्षयं वा परस्यात्मनो ऽनुगुणं न पश्येत् । संदधान इति संधिं च कुर्वमात्मनो ऽनुगुणं न पश्येत् तदा आसीत स्ववृद्यर्थमासनं कुर्यात् न विग्रहं संधि वा । अवसरः कालस्तं प्रतीक्षत इति अवसरप्रतीक्षः । २९१३। कर्मण्यण् ।३।२।१' संधेर्विग्रहस्य वा स्वपरवृद्धिक्षयानुकूलं कालं प्रतीक्षमाण इत्यर्थः । न पुनः प्रयासं संधिविग्रहोयमं वितथं निष्फलं निष्प्रयोजनं कुर्यात् । यदा तु परं विग्रहीतुमशक्तः तदा श्वावराहकलहं समानमुपदेक्ष्यति ॥
संधिं कृतवतो ऽपि विजिगीषोः परेण वा वियुज्यमानस्य विधिमुपदिशमाह९६१-संधौ स्थितो वा जनयेत् स्व-वृद्धिं
हन्यात् परं वोपनिषत्प्रयोगैः ॥ आश्रावयेदस्य जनं परैर् वा
विग्राह्य कुर्यादवहीन-संधिम्. ॥ ३०॥ संधावित्यादि-संधौ स्थितो वर्तमानः जनयेत् स्ववृद्धिम् । यया अत्युच्छ्रितः तामभियुञ्जीत परं वा शत्रु उपनिषत्प्रयोगैः विषादिदानैः हन्यात् विनाशयेत् संधिना जातविश्वासत्वात् । आश्रावयेदस्य जनं देशादिदानेनाकर्षयेत् । बलवता अभियुज्यमानः परैः विग्राह्य कलहं कारयित्वा अवहीनसंधि आक्रान्तसंधिं कुर्यात् । तस्योपतापितत्वात् ॥ संधिरसोर्विजिगीषोः शत्रुमण्डलभेदं कुर्वतः सुकरः संधिरित्युपदिशमाह९६२-संदर्शित-स्नेह-गुणः स्व-शत्रुन्
विद्वेषयन् मण्डलमस्य भिन्द्यात् ॥ इत्येवमादि प्रविधाय संधिर्
वृद्धेर् विधेयो ऽधिगमाभ्युपायः ॥ ३१॥ संदर्शितेत्यादि-अमच्छत्रवो ऽनेन संधानं मा कार्युरिति तान्विद्वेषयन् विमुखानुत्पादयन् । दर्शितस्नेहगुणः प्रकटीकृतानुरागगुणः । अस्य शत्रोमण्डलममात्यादिप्रकृति मिन्यात् इत्येवमादि प्रविधाय संदर्शितेत्येवमादिवाक्यार्थ कृत्वेत्यर्थः । वृद्धरधिगमाभ्युपायः प्राप्तिहेतुः संधिर्विधेयो ऽनुष्ठेयः॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com