SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३१४ भट्टिकाव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे नाम तृतीयो वर्गः, वृद्धीत्यादि-आत्मद्रव्यप्रकृतिसंपन्नो नयस्याधिष्ठानं विजिगीषुः तस्य च वृद्धिक्षयस्थानमिति त्रीणि फलानि । गुणाश्च सन्धिविग्रहयानासनसंश्रयद्वैधी. भावाः षट् । तन्त्र यस्मिन् गुणे स्थितः पश्येदिहस्थः पश्यामीति । दुर्गसेतुवणिकृषिशून्यनिवेशनद्रव्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुं परस्थ चैतानि हन्तुं गुणमातिष्ठेत् सा वृद्धिः । यस्मिन् गुणे स्थितः स्वकर्मणामुपघातं पश्येत् नेतरस्य तस्मिन्न तिष्ठेत् स क्षयः। स्वकर्मणां वृद्धिगुणेनाभिपश्येदेतत् स्थानमित्यनेन मार्गेण यो विजिगीषुः वृद्धिक्षयस्थानगतामात्मनः परस्य च वृत्तिमजसं शश्वत् प्रसमीक्षमाणो निरूपयन् सन्ध्यादिषु षड्गुणेषु घटेत यतेत तं विजिगीषु लक्ष्मीः राज्यश्रीः चञ्चलापि न मुञ्चति । गुणशृङ्खलाबद्धत्वात् ॥ अस्ति स कालो यत्र विजिगीषुणा परवृद्धिरुपेक्षणीयेति दर्शयबाह९५८-उपेक्षणीयैव परस्य वृद्धिः प्रनष्ट-नीतेरजितेन्द्रियस्य । मदाऽऽदि-युक्तस्य विराग-हेतुः, स-मूल-घातं विनिहन्ति या ऽन्ते. ॥ २७ ॥ उपेत्यादि-परः शत्रुः प्रनष्टनीतित्वादजितेन्द्रियः न मदादिषड्वर्ग त्यजति, किंतु तेनैव युज्यते । तस्यैवंविधस्य या वृद्धिः सा सर्वस्यैव लोकस्य विरागहेतुः वैमुख्यकारणमुपेक्षणीयैव न तदभावाय । तेनेदृशी या अन्ते अवसाने समूल. घातं सर्व सर्वेण विनिहन्ति विनाशयति ॥ तथास्ति स कालो यत्र विजिगीषुणाप्यात्मक्षय उपेक्षणीय इत्याह९५९-जनाऽनुरागेण युतो ऽवसादः फलाऽनुबन्धः सुधिया ऽऽत्मनो ऽपि ॥ उपेक्षणीयो ऽभ्युपगम्य संधि कामाऽऽदि-षड्-वर्ग-जिता ऽधिपेन. ॥ २८ ॥ जनेत्यादि-आत्मनो ऽप्यवसादः क्षयः अनानुरागेण युतः संबद्धः अनुरक्तंप्रकृतिमण्डलस्वाद्विजिगीषोः फलानुबन्धः फलमनुबध्नाति । सुधिया विदुषा अधिपेन राज्ञा । कामादिषड्वर्गजिता कामक्रोधलोभमोहमदेाणां षण्णां वर्ग: तजिता उपेक्षणीयः । तत्रापि परैः संधिमभ्युपगम्य कृत्वा । अन्यथा क्षीणोऽयमिति परोऽभियुजीत ॥ बदा च विजिगीषुः संधिविग्रहाभ्यां फलं न पश्येत् तदा खवृद्धिमाहवर्थमा. सनं कुर्यादित्युपदिशमाह९६०-यदा विगृहन् न च संदधानो. वृद्धिं क्षयं चा ऽनुगुणं प्रपश्येत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy