________________
तथा लक्ष्य-रूपे कथानके 'विभीषणागमनों' नाम द्वादशः सर्गः--३१३ पूशब्दो वा कृतसमासान्तः। यत्र कपिनाथभृत्येन इंदशमनुष्ठितं स कथं नराभियोगो मन्त्रोन्मुखो न निरूप्यत इति ॥ प्रमादेनाग्निः लङ्कामधाक्षीदित्यत्रोत्तरमाह९५५-अग्निः प्रमादेन ददाह लङ्कां
वध्यस्य देहे स्वयमैधितश् चेत्, ॥ विमृश्य तद् देव-धिया ऽभिधत्त
ब्रह्माऽस्त्र-बन्धोऽपि यदि प्रमादः ॥ २४ ॥ अग्निरित्यादि-वध्यस्य वधार्हस्य देहे तदेकदेशेषु पुच्छादिषु प्रमादेन स्वयं युष्माभिरग्निरेधितो दीपितः लङ्कां ददाह चेत्, तथास्तु । ब्रह्मास्त्रबन्धोऽपि यदि प्रमादः तद्देवधिया देवबुद्ध्या देवानां सात्विकत्वान्निर्मला बुद्धिः तया विमृश्य निरूप्याभिधत्त ब्रूत । सोऽपि प्रमाद इति यतो ऽसावमोघोऽपि विश्लेषितः । अभिधत्तेति । '२५०१ । दधस्तथोश्च ।।२।३८॥' इत्यभ्यासदकारस्य भष् धातोश्च खरि चर्वम् परामियोगः सर्वथा निरूप्यत इति दर्शयबाह९५६-जगन्त्यमेयाऽद्भुत-भाव-भाञ्जि,
जिताऽभिमानाश् च जना विचित्राः ॥ कार्ये तु यत्नं कुरुत प्रकृष्टं,
मा नीति-गर्भान् सु-धियो ऽवमन्ध्वम्. ॥ २५ ॥ जगन्तीत्यादि-असंख्यविचित्रभावभाजि जगन्ति तत्रत्या अपि जनाः विचित्राः शक्तिदेशकालवशात् जिताभिमानाश्च । अन्यरुस्कृष्टैर्जीयतेऽभिमानस्तेषाम् । तेनात्मन्यभिमानो न कर्तव्य इति दर्शयति । कार्ये तु प्रकृष्टमुत्तमं यत्नं कुरुत । येन तत्तत्कार्य सिध्यति । तत्र च ये युक्तिमभिदधति तानीतिगर्भान् नीतिरेव पाड्गुण्यादिज्ञानं गर्भे येषाम् । अत एव सुधियो मावमध्वं मा परिभूत । तदयुक्तानुष्ठानात् । '२६९७। हनः सिच् ॥२॥१४॥' इति कित्त्वविधानसामर्थ्यात् अनुनासिकलोपाभावः । '२२४९। धि च ।।२५।' इति सिचो लोपः॥ यथा च विजिगीषुणा वर्तितव्यं तथोपदिशमाह९५७-वृद्धि-क्षय-स्थान-गतामजनं
वृत्तिं जिगीषुः प्रसमीक्षमाणः॥ घटेत सन्ध्याऽऽदिषु यो गुणेषु,
लक्ष्मीर् न तं मुञ्चति चञ्चला ऽपि. ॥ २६ ॥ भ० का० २७
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com