________________
३१२ भट्टिकाव्ये - तृतीये प्रसन्न -काण्डे लक्षण-रूपे तृतीयो वर्गः,
समेधितो वर्धितः तैलघृतादिभिर्गृहात् गृहं गच्छतो गलन् पुच्छात्पतन् लङ्कामधाक्षीत् दग्धवान् । '३२६ | एकाचो बशो भष - |८|२|३७|' इत्यादिना धत्वम् । हलन्तलक्षणा वृद्धिः । ' ३२४ हो ढः | ८ | २|३१|| '२९५ | षढोः कः सि |८|२| ४१ | ' निजेन आत्मीयेन प्रमादेन ज्वालादर्शितलक्षणेन । तदानीं तस्य शस्त्र व्यापादनमेव युक्तमिति ॥
९५२ - अथाऽञ्चितो॒रस्कर्मुदीर्ण-दृष्टि: कृत्वा विवक्षा प्रवणं शरीरम् ॥ विवृत्त - पाणिर् विहितोत्तराऽर्थं विभीषणो ऽभाषत यातुधानान् ॥ २१ ॥
अथेत्यादि - प्रहस्तादिवचनानन्तरं भञ्चितोरस्कं विन्यस्तहारत्वात् । पूजि - तोरस्कम् । '८८९ । उरःप्रभृतिभ्यः कप् | ५ | ४ | १५१ । ' ' ३०४७ | अचेः पूजायाम् |७|२/५३॥ इतीट् । '४२४ | नाचेः पूजायाम् | ६ | ४|३०|' इत्यनुनासिकलोपप्रतिपेधः । तादृशं शरीरं विवक्षाप्रवणं वक्तुमिच्छाभिमुखं कृत्वा शरीरस्य सौष्ठवं उत्पाद्येत्यर्थः । उदीर्णदृष्टिस्तदभिमुखदृष्टिः । विवृत्तपाणिस्तदभिमुखीकृत दक्षिणपाणिः विभीषणो यातुधानानभाषत विहितोत्तरार्थं विहितः प्रतिषिद्धः परैरुदितस्य वचनस्यार्थो यत्र भाषण इति ॥
९५३ - 'युद्धाय राज्ञा सुभृतैर् भवद्भिः संभावनायाः सदृशं यदुक्तम्, ॥ तत् प्राण-पण्यैर् वचनीयमैव,
प्रज्ञा तु मन्त्रे ऽधिकृता, न शौर्यम् ॥ २२ ॥
युद्धायेत्यादि - युद्धार्थ राज्ञा भवन्तः सुभृताः संवर्धिताः तैः सुभृतैर्यदुक्तं 'भानुं पिनषाम' इत्यादि कीदृशम्। संभावनायाः सदृशम् । तत्प्राणपण्यैर्वचनीयमेव । मन्त्रे तु प्रज्ञाधिकृता न शौर्यम् ॥
'नराभियोगं किं नयसे गुरुत्वम्' इत्यत्रोत्तरमाह -
९५४- यच् चापि यत्ना-ऽऽष्टत-मन्त्र- वृत्तिर्
गुरु-त्वमा॑याति नरा॒ऽभियोगः ॥ वशीकृतेन्द्रस्य, कृतोत्तरो ऽस्मिन् विध्वंसिताऽशेष - पुरो हनूमान् ॥ २३ ॥
यच्चेत्यादि - वशीकृतेन्द्रस्य निर्जितशक्रस्य रावणस्य नराभियोगो यत्त्रादृतमन्त्रवृत्तिर्यनेनादृता मत्रवृत्तिर्यस्य सः तादृशो गुरुत्वमायातीति यच्चाप्युक्तं अस्मिन् वस्तुनि हनूमान् कृतोत्तरो दत्तोत्तरः । यतः विध्वंसिताशेषपुरः । पुरं लङ्का ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com