SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'विभीषणागममो' नाम द्वादशः सर्गः - ३११ अखण्ड्यमानमित्यादि - शक्रमखण्ड्यमानं अनभिभवनीयाहंकारं अतश्च पण्डितंमन्यं पण्डितमात्मानं मन्यमानं नान्यः पण्डितोऽस्तीति तादृशं परिखंण्ड्य जित्वा त्वं नृभुजां प्रधान ! उदीर्णदण्डः अभ्यर्चितबलः सन् किमर्थं मत्रोन्मुखो मन्त्रप्रवणः नराभियोगं गुरुत्वं नयसे प्रापयसि । सुमन्त्रितानि कार्याणि सिध्यन्तीति । अत्र कर्तुर्गुणाभियोगेन क्रियाफलेन योगादात्मनेपदम् ॥ ९४९ - निर्यत् - स्फुलिङ्गाऽऽकुल- धूम - राशिं किं ब्रूहि भूमौ पिनषाम भानुम् ॥ आ दन्त-निष्पीडित-पीतमिन्दुं ष्ठीवाम शुष्केक्षु-लताsस्थि - कल्पम् ॥ १८ ॥ निर्यदित्यादि - ब्रूहि समादिश आस्तां तावन्नराभियोगः । किं भानुं क्षितौ पिनषाम चूर्णयाम | प्रश्ने लोट् । '२५४३। रुधादिभ्यः श्रम् | ३|१|७८|' निर्यता निर्गच्छता स्फुलिङ्गेनाकुलो धूमराशिर्यस्य तं भानुम् । भा इति विकल्पे वर्तते । दन्त निष्पीडितपीतं इन्दुं वा पूर्व दन्तैर्निष्पीडितं पश्चात्पीतं ष्ठीवाम निरस्याम | '४३३। र्वोरुपधायाः-|८|२|७६ | ' इति दीर्घः । शुष्केक्षुयष्टेरस्थीव तरसदृशम् ॥ ९५० - स - राघवैः किं बत वानरैस्तैर् यैः प्रातराशो ऽपि न कस्यचिन् नः ॥ स- स्थाणु- कैलास धरा ऽभिधत्स्व, किं द्यौरधो ऽस्तु, क्षितिर॑न्त॒रीक्षे ॥ १९ ॥ सराघवैरित्यादि -- सस्थाणुर्यः कैलासः तस्य धर इति सः । धारयतीति धरः। कर्तर्यच् । हे सस्थाणु कैलासघर ! नो ऽस्माकं मध्ये कस्यचिदेकस्य यैः सराघवैः प्रातराशो ऽपि प्रातर्भोजनमपि न भवति तैः सराघवैर्वानरैः किं प्रयोजनम् । बतशब्दो ऽनुशोचने । भतो ऽभिधत्स्व आदिश । किं द्यौराकाशमधोsस्तु भवतु, क्षितिर्वा अन्तरीक्षे उपरिष्टादस्त्विति ॥ यत्पुरं दग्धं तद्युष्मत्प्रमादेनैव न शत्रुशक्त्येति दर्शयन्नाह - ९५१ - चापल्य- युक्तस्य हरेः कृशानुः समेधितो वालधि-भाक् त्वदीयैः ॥ शस्त्रेण वध्यस्य गलन्नधाक्षीद् राजन् ! प्रमादेन निजेन लङ्काम् . ' ॥ २० ॥ चापल्येत्यादि - चपलस्य भावश्चापल्यम् । ब्राह्मणादित्वात् व्यञ् । युवादि • व्वपि दृश्यते तत्र चापलमिति रूपम् । तेन युक्तस्य हरेर्मर्कटस्य हे राजत् ! शस्त्रेण वध्यस्य सतः यो वालधिः पुच्छं तद्भाकू समाश्रितः कृशानुस्त्वदीयैः भृत्यैः Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy